________________
आगम
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
मूलं [१५०] / गाथा ||११९-१२२||
(४५)
प्रत
सूत्रांक
[१५०]
गाथा: ||--||
ॐ45%45-45-5-150
भावितामेव, नवरं परिपूर्ण इति रूपं न पात्यते इत्यर्थः । तेण परं' इत्यादि, गतार्थमेष, 'उकोसयं परिताणतय'मित्यादि, जघन्यपरीतानन्तके यावन्ति रूपाणि भवन्ति तावत्सङ्ख्यानां राशीनां प्रत्येक जघन्यपरीतानन्तकप्रमाणानां पूर्ववदन्योऽन्याभ्यासे रूपोनमुत्कृष्टं परीतानन्तकं भवति, 'अहवा जहण्ण जुत्ताणतय'मित्यादि, स्पष्ट, 'जहएणयं जुत्ताणतयं केत्तियमित्यादि व्याख्यातार्थमेव । 'अहवा उक्कोसयं परित्ताणतए'इत्यादि, सुबोध, जघन्ये च युक्तानन्तके यावन्ति रूपाणि भवन्ति अभवसिद्धिका अपि जीवाः केवलिना तावन्त एव दृष्टाः, 'तेण पर'मित्यादि, कण्ठ्यम्, 'उक्कोसयं जुत्ताणतयं केत्तिय'मित्यादि, जघन्येन युक्तानन्तकेनाभब्यराशिगुणितो रूपोन: सन्नुत्कृष्टं युक्तानन्तकं भवति, तेन तु रूपेण सह जघन्यमनन्तानन्तक संपद्यते, अत एवाह-'अहवा जहएणयं अणंताणतयमित्यादि, गतार्थ, 'जहषणयं अणंताणतयं केलिय'मित्यादि, भावितार्थमेव, 'अहवा उक्कोसए जुत्ताणतए'इत्यादि, प्रतीतमेव, 'तेण परं अजहण्णुकोसयाई इत्यादि, जघन्यादनन्तानन्तकात् परतः सर्वाण्यपि अजघन्योत्कृष्टान्येवानन्तकानन्तकस्य स्थानानि भवन्ति, उत्कृष्टं स्वनन्तानन्तकं नास्त्येवेत्यभिप्रायः। अन्ये त्वाचार्याः प्रतिपादयन्ति-जघन्यमनन्तानन्तकं वारत्रयं पूर्ववत् वयेते, ततश्चैते षडनन्तकप्रक्षेपाः प्रक्षिप्यन्ते, तद्यथा-"सिद्धा निगोयजीवा वणस्सई काल पुग्गला चेव । सव्वमलोगागासं छप्पेतेऽणतपक्खेवा ॥१॥" अयमर्थः-सर्वे सिद्धाः सर्वे सूक्ष्मवादरनिगोदजीवाः प्रत्येकानन्ताः 8 सर्वे वनस्पतिजन्तवः सर्वोऽप्यतीतानागतवर्तमानकालसमयराशिः सर्वपुद्गलद्रव्यसमूहः सर्वोऽलोकाकाशप
दीप अनुक्रम [३११-३१७]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
| अत्र मुद्रणदोषात् सूत्रक्रमांक १४९' स्थाने सूत्रक्रमांक १५०' इति मुद्रितं
~486~