________________
आगम
(४५)
प्रत
सूत्रांक
[१४८]
दीप
अनुक्रम
[३१०]
अनु. ३९
अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः) मूलं [१४८] / गाथा ||११८...||
निवारितत्वाद्, यथा एकोऽपि देवदत्तः कदाचिद्राज्ञो भृत्यः कदाचिदमात्यादेरिति एवमाकाशास्तिकायादिप्रदेशेऽपि वाच्यं तदेवं नैयत्याभावात्तवाप्यनवस्था प्रसज्येतेति, तन्मैवं भण-भाज्यः प्रदेशः, अपि तु इत्थं भण-'धम्मे पएसे [ से पएसे धम्मे ]' इत्यादि, इदमुक्तं भवति-धर्मः प्रदेश इति-धर्मात्मकः प्रदेश इत्यर्थः, अत्राह - नन्वयं प्रदेशः सकलधर्मास्तिकायादव्यतिरिक्तः सन् धर्मात्मक इत्युच्यते आहोखित्तदेकदेशाध्य तिरिक्तः सन् यथा सकलजीवास्तिकायैकदेशेकजीवद्रव्याव्यतिरिक्तः संस्तत्प्रदेशो जीवात्मक इति व्यप| दिश्यत इत्याह- 'से परसे धम्मेति स प्रदेशो धर्मः सकलधर्मास्तिकायादव्यतिरिक्त इत्यर्थः, जीवास्तिकाये हि परस्परं भिन्नान्येवानन्तानि जीवद्रव्याणि भवन्ति, अतो य एकजीवद्रव्यस्य प्रदेशः स निःशेषजीवास्तिकायैकदेशवृत्तिरेव सन जीवात्मक इत्युच्यते, अत्र तु धर्मास्तिकाय एकमेव द्रव्यं ततः सकलधर्मास्तिकायाव्यतिरिक्त एव सँस्तत्प्रदेशो धर्मात्मक उच्यत इति भावः । अधर्माकाशास्तिकाययोरप्येकैकद्रव्यत्वादेवमेव भावनीयं । जीवास्तिकाये तु 'जीवे परसे से पएसे नोजीवेत्ति, जीवः प्रदेश इति जीवास्तिकायात्मकः प्रदेश इत्यर्थः, स च प्रदेशो नोजीवः, नोशब्दस्येह देशवचनत्वात् सकल जीवास्तिकायैकदेश वृत्तिरित्यर्थः, यो | ह्येकजीवद्रव्यात्मकः प्रदेशः स कथमनन्तजीवद्रव्यात्मके समस्तजीवास्तिकाये वर्तत इति भावः, एवं स्कन्धात्मकः प्रदेशो नोस्कन्धः, स्कन्धद्रव्याणामनन्तत्वादेकदेशवर्तिरित्यर्थः । एवं वदन्तं शब्दनयं नानार्थसमभिरोहणात् समभिरूढः स प्राह-यद्भणसि धर्मः प्रदेशः स प्रदेशो धर्म इत्यादि, तन्न भवति न युज्यते, कस्मा
Forane & Personal Use City
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
~460~
baryong