________________
आगम
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्तिः ) .......... मूलं [१४८] / गाथा ||११८...||
(४५)
प्रत
सूत्रांक [१४८]
टते, चलनादिक्रियावत्त्वात्, मार्गादिप्रवृत्तवत्, संस्तारके च बसतो गृहादी वसतीति व्यपदेशायोग एव, अतिप्रसङ्गात, तस्मात् कासौ वसतीति निवासजिज्ञासायां संस्तारके-शय्यामात्रखरूपे बसतीत्येतदेवास्य मतेनोच्यत, नान्यदिति भावः, स च नानादेशादिगतोऽप्येक एव, सङ्घहस्य सामान्यवादित्वादिति । ऋजुमूत्रिस्य तु पूर्वमाद्विशुद्धत्वाद येष्वाकाशप्रदेशेष्ववगाढस्तेष्वेव वसतीत्युच्यते, न संस्तारके, सर्वस्यापि वस्तुवृत्त्या नभस्येवावगाहात्, येषु प्रदेशेषु संस्तारको वर्तते-संस्तारकेणैवाक्रान्ता वर्तन्ते, ततो येष्वेव प्रदेशेषु स्वयमवगाढस्तेष्वेव वसतीत्युच्यते, स च वर्तमानकाल एवास्ति, अतीतानागतयोविनष्टानुत्पन्नत्वेनैतन्मतेऽसत्त्वादिति । त्रयाणां शब्दनयानामात्मभावे-खस्वरूपे सर्वोऽपि वसति, अन्यस्यान्यत्र वृत्त्ययोगात्, तथाहिअन्योऽन्यत्र वर्तमानः किं सर्वात्मना वर्तते देशात्मना वा?, यद्याद्यः पक्षस्तर्हि तस्याधारव्यतिरेकिणा स्वकीयरूपणाप्रतिभासनप्रसङ्गो, यथा हि संस्तारकाधाधारस्य स्वरूपं सर्वात्मना तत्र वृत्तं न तद्व्यतिरेकेणोपलभ्यते एवं देवदत्तादिरपि सर्वात्मना तत्राधीयमानस्तद्ध्यतिरेकेण नोपलभ्येत, अथ द्वितीयो विकल्पः स्वीक्रियते |
तर्हि तत्रापि देशे अनेन वर्तितव्यं, ततः पुनरपि विकल्पद्वयं-किं सर्वात्मना वर्तते देशात्मना वेति?, सर्वा8|त्मपक्षे देशिनो देशरूपतापत्तिः,देशात्मपक्षे तु पुनस्तत्रापि देशे देशिना वर्तितव्यं, ततः पुनरपि तदेव वि-10 ट्रकल्पद्वयं, तदेव दूषणमित्यनवस्था, तस्मात्सर्वोऽपि खखभाव एव निवसति, तत्परित्यागेनान्यत्र निवासे तस्य मानि:खभावताप्रसङ्गादित्यलं बहुभाषितया । 'से तमित्यादि निगमनम् ।
दीप
अनुक्रम [३१०]
JiaEducabourinepal
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~454~