________________
आगम
(४५)
प्रत
सूत्रांक
[१४८]
दीप
अनुक्रम
[३१०]
अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:) मूलं [१४८] / गाथा ||११८...||
अनुयो०
मलधा
रीया
॥ २२५ ॥
वसतिः - निवासस्तेन दृष्टान्तेन नयविचार उच्यते, तद्यथानामकः कचित्पुरुषः पाटलिपुत्रादौ वसन्तं क ४ ञ्चित्पुरुषं वदेत्-क भवान् वसति?, तत्राविशुद्धनैगमो भणति-अविशुद्ध नैगमनयमतानुसारी सन्नसौ प्रत्युॐ त्तरं प्रयच्छति लोके वसामि, तन्निवासक्षेत्रस्यापि चतुर्दशरज्ज्वात्मकलोकादनर्थान्तरत्वाद्, इत्थमपि च व्य2 वहारदर्शनात्, विशुद्ध नैगमस्त्वतिव्याप्तिपरत्वादिदमसङ्गतं मन्यते, ततस्तिर्यलोके वसामीति संक्षिप्योत्तरं द्वाति, विशुद्धतरस्त्विदमप्यतिव्याप्तिनिष्ठं मन्यते ततो जम्बुद्वीपे वसामीति संक्षिप्ततरमाह, एवं भारतव|र्षदक्षिणार्द्ध भरतपाटलिपुत्र देवदत्तगृहगर्भगृहेष्वपि भावनीयम् एवं 'विसुद्धस्स णेगमस्स वसमाणो वसई' 2 एवमुत्तरोत्तर भेदापेक्षया विशुद्धतरनैगमस्य वसन्नेव वसति, नान्यथा, इदमुक्तं भवति - पत्र गृहादी सर्वदा निवासित्वेनासौ विवक्षितः तत्र तिष्ठन्नेव एष तत्र वसतीति व्यपदिश्यते, यदि पुनः कारणवशतोऽन्यत्र रथ्यादौ वर्तते तदा तत्र विवक्षिते गृहादौ वसतीति न प्रोच्यते, अतिप्रसङ्गादिति भावः । 'एवमेवेत्यादि, लोकव्यवहारनिष्ठो हि व्यवहारनयो, लोके च नैगमोक्तप्रकाराः सर्वेऽपि दृश्यन्ते इति भावः अथ चरमनैगमोक्तप्रकारो लोके नेष्यते, कारणतो ग्रामादौ वर्तमानेऽपि देवदत्ते पाटलिपुत्रे एष वसतीति व्यपदेशदर्शनादिति चेत्, नैतदेवं, प्रोषिते देवदते स इह वसति न वेति केनचित्पृष्ठे प्रोषितोऽसौ नेह वसतीत्यस्यापि लोकव्यवहारस्य दर्शनादिति । 'संगहस्से'त्यादि, प्राक्तनात् विशुद्धत्वात् सङ्ग्रहनयस्य गृहादौ तिष्ठन्नपि संस्तारकारूढ एव शयनक्रियावान् वसतीत्युच्यते, इदमुक्तं भवति-संस्तार केऽवस्थानादन्यत्र निवासार्थ एव न घ
वृत्तिः उपक्रमे प्रमाणद्वारं
~453~
| ॥ २२५ ॥
For ane & Personal Use City
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि - रचिता वृत्तिः
ibrary dig