________________
आगम (४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
...... मूलं [१४८] / गाथा ||११८...||
प्रत
सूत्रांक [१४८]
चि देशतोऽपि भवत्यत आह-मितः पूरितः, अनेनैव प्रकारेण मेयं समारूढं यत्र स आहितादेराकृतिगण-14
स्वान्मेयसमारूढा, अयमन्त्र भावार्थ:-प्राक्तननयन्यस्याविशुद्धत्वात् प्रस्थककारणमपि प्रस्थक उक्ताअनिष्पन्नः | दिप्रस्थकोऽपि खकार्याकरणकालेऽपि प्रस्थक इष्टः, अस्य तु ततो विशुद्धत्वाद्धान्यमानलक्षणं खायें कुर्वन्नेव प्र
स्थका, तस्य तदर्धत्वात्, तदभावे च प्रस्थकव्यपदेशेऽतिप्रसङ्गादिति यथोक्त एव प्रस्थका, सोऽपि प्रस्थकसामान्याव्यतिरेकात् व्यतिरेके चाप्रस्थकत्वप्रसङ्गात् सर्व एक एव प्रस्थक इति प्रस्तुतनयो मन्यते, सामान्यवादित्वादिति । 'उज्जमुपस्से'त्यादि, ऋजुसूत्रः-पूर्वोक्तशब्दार्थः तस्य निष्पन्नखरूपोऽधेक्रियाहेतुः प्रस्थकोऽपि प्रस्थका, तत्परिच्छिन्नं धान्यादिकमपि वस्तु प्रस्थका, उभयत्र प्रस्थकोऽयमिति व्यवहारदर्शनात्, तथा-12 प्रतीतेः, अपरं चासौ पूर्वस्माद्विशुद्धत्वाद्वर्तमाने एव मानमेये प्रस्थकत्वेन प्रतिपद्यते, नातीतानागतकाले,8
तयोविनष्टानुत्पन्नत्वेनासत्वादिति। तिण्हं सहनयाण मित्यादि, शब्दप्रधाना नयाः शब्दनयाः-शब्दसमभिरूशवंभूताः, शब्देऽन्यथास्थितेऽर्थमन्यथा नेच्छन्त्यमी, किन्तु?, यथैव शब्दो व्यवस्थितस्तथैव शब्देनार्थ गमयन्ती
त्यतः शब्दनया उच्यन्ते, आबास्तु यथाकथञ्चिच्छब्दाः प्रवर्तन्तामर्था एवं प्रधानमित्यभ्युपगमपरत्वादर्थनयाः प्रकीर्त्यन्ते, अत एषां त्रयाणां शब्दनयानां 'प्रस्थकार्थाधिकारज्ञः' प्रस्थकस्वरूपपरिज्ञानोपयुक्तः प्रस्थका, भावप्रधाना घेते नया इत्यतो भावप्रस्थकमेवेच्छन्ति, भावश्च प्रस्थकोपयोगोऽतः स प्रस्थकः, तदुपयोगवानपि च ततोऽव्यतिरेकात् प्रस्थकः, यो हि यत्रोपयुक्तः सोऽमीषां मते स एव भवति, उपयोगलक्षणो जीवः, उपयो
दीप
अनुक्रम [३१०]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~450~