________________
आगम
(४५)
“अनुयोगद्वार'- चूलिकासूत्र-२ (मूलं+वृत्तिः )
...................... मूलं [१६] / गाथा ||१...|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१६]
दीप अनुक्रम
योजित एव, यत्र तु न दृश्यते तत्राध्याहारो द्रष्टव्यः, अहोशब्दो दैन्यविस्मयामश्रणेषु वर्तते, स चेह त्रिप्वपि घटते, तथाहि-अनित्यं शरीरमिति दैन्ये, आवश्यकं ज्ञातमिति विस्मये, अन्य पार्श्वस्थितमामनयमाणस्याऽऽमणे, 'अनेन' प्रत्यक्षतया दृश्यमानेन शरीरमेव पुद्गलसङ्घातत्त्वात् समुच्छ्रयस्तेन, 'जिनदृष्टेन'-तीर्थकराभिमतेन, 'भावेन' कर्मनिर्जरणाभिप्रायेण, अथवा-भावेन-तदावरणकर्मक्षयक्षयोपशमलक्षणेन, आवश्यकपदाभिधेयं शाखें 'आघवियंति प्राकृतशैल्या छान्दसत्वाच गुरोः सकाशादागृहीतं, 'प्रज्ञापितं' सामान्यतो विनेयेभ्यः कथितं, 'प्ररूपितं तेभ्य एवं प्रतिसूत्रमर्थकथनता, 'दर्शितं प्रत्युपेक्षणादिक्रियादर्शनतः इयं क्रिया एभिरक्षरैरत्रोपात्ता इत्थं च क्रियते इत्येवं विनेयेभ्यः प्रकटितमिति भावः, 'निदर्शितं' कथश्चिदगृह्णतः परयाऽनुकम्पया निश्चयेन पुनः पुनः दर्शितम्, 'उपदर्शितं' सर्वनययुक्तिभिः । आह-नन्वनेन शरीरसमुच्छयेणाऽऽवश्यकमागृहीतमित्यादि नोपपद्यते, ग्रहणप्ररूपणादीनां जीवधर्मत्वेन शरीरस्याघटमानत्वात्, सत्यं, किन्तु भूतपूर्वगत्या जीवशरीरयोरभेदोपचारादित्थमुपन्यास इत्यदोषः । पुनरप्याह-ननु यद्यपि तच्छरीरकं शय्यादिगतं दृष्ट्वा पूर्वोक्तवतारो भवन्ति, तथाऽपि कथं तस्य द्रव्यावश्यकता?, यत आवश्यकस्य कारणमेव द्रव्यावश्यक भवितुमर्हति, भूतस्य भाविनो वेत्यादिपूर्वोक्तवचनात् , कारण चाऽऽगमस्य चेतनाधिष्ठितमेव शरीरं न स्थिदं, चेतनारहितत्वात् , तस्यापि तत्कारणत्वेऽतिप्रसङ्गात्, सत्यं, किन्त्वतीतपर्यापानुवृत्यभ्युपगमपरनयानुवृत्याऽतीतमावश्यककारणत्वपर्यायमपेक्ष्य द्रव्यावश्यकताऽस्योच्यत इत्यदोषः । स्यादेवं, यद्यत्रार्थे
[१७]
~ 44 ~