________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
............ मूलं [१४६-१४७] / गाथा ||११५-११८|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१४६-१४७]
गाथा:
दृष्टेन पूर्वोपलब्धेनार्थेन सह साधर्म्य दृष्टसाधये, तद्गमकत्वेन विद्येत यत्र तद् दृष्टसाधर्म्यवत्, पूर्वदृष्ट-| |श्चार्थः कश्चित् सामान्यतः कश्चित्तु विशेषतो दृष्टः स्याद् , अतस्तद्भेदादिदं द्विविधं, सामान्यतो दृष्टार्थयोगात्सामान्यदृष्टं, विशेषतो दृष्टार्थयोगाद्विशेषदृष्टं, तत्र सामान्यदृष्टं यथा एकः पुरुषस्तथा बहवः पुरुषा इ- त्यादि, इदमुक्तं भवति-नालिकेरद्वीपादायातः कश्चित् तत्प्रथमतया सामान्यत एक कञ्चन पुरुषं दृष्ट्वा अनुमानं करोति यथा अयमेकः परिदृश्यमानः पुरुष एतदाकारविशिष्टस्तथा बहवोऽत्रापरिदृश्यमाना अपि पुरुषा एतदाकारसम्पन्ना एव, पुरुषत्वाविशेषाद्, अन्याकारत्वे पुरुषत्वहानिप्रसङ्गा, गवादिवत्, बहुषु तु पुरुषेषु तत्प्रथमतो वीक्षितेष्वेवमनुमिनोति यथाऽमी परिदृश्यमानाः पुरुषा एतदाकारवन्तः तथाऽपरोऽप्येकः कश्चित्पुरुषः एतदाकारवानेव, पुरुषत्वाद् , अपराकारत्वे तद्धानिप्रसङ्गाद् , अश्वादिवदिति, एवं कार्षापणा|दिष्वपि वाच्छ, विशेषतो दृष्टमाह-'से जहानामए'इत्यादि, अत्र पुरुषाः सामान्येन प्रतीता एव, केवलं
यदा कश्चित् कचित् कश्चित्पुरुषविशेषं दृष्ट्वा तद्दर्शनाहितसंस्कारोऽसाततत्प्रमोषः समयान्तरे बहुपुरुष18 समाजमध्ये तमेव पुरुषविशेषमासीनमुपलभ्यानुमानयति-यः पूर्व मयोपलब्धः स एवायं पुरुषः, तथैव प्रत्य
भिज्ञायमानत्वाद्, उभयाभिमतपुरुषवदिति, एतत्तदा विशेषदृष्टमनुमानमुच्यते, पुरुषविशेषविषयत्वाद्, एवं कार्षापणादिष्वपि वाच्यं । तदेवमनुमानस्य त्रैविध्यमुपदश्य साम्प्रतं तस्यैव कालत्रयविषयतां दर्शयनाह-तस्स समासओ तिविहं गहण'मित्यादि, तस्येति-सामान्येनानुवर्तमानमनुमानमात्रं संबध्यते, तस्या
||-||
NAGAMAKARRESEARCH
दीप अनुक्रम [३००
-३०९]]
Ji-Educationa
l
~ 434~