________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
........ मूलं [१४६-१४७] / गाथा ||११५-११८|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [१४६
-१४७]
गाथा:
क
||-||
४ाषवत् दृष्टसाधर्म्यवचेति । 'से किं तं पुब्वव मित्यादि, विशिष्टं पूर्वोपलब्ध चिह्नमिह पूर्वमुच्यते, तदेव निमित्तरू
पतया यस्यानुमानस्यास्ति तत्पूर्ववत्, तद्वारेण गमकमनुमानं पूर्ववदिति भावः। तथा चाह-माता पुत्र'मित्यादि श्लोकः, यथा माता स्वकीयं पुत्रं बाल्यावस्थायां नष्टं युवानं सन्तं कालान्तरेण पुनः कथमप्यागतं काचित्तथाविधस्मृतिपाटयवती, न सर्वाः, पूर्वदृष्टेन लिनेन केनचित् क्षतादिना प्रत्यभिजानीयात्-मत्पुत्रोऽयमिति अनुमिनुयादित्यर्थः, केन पुनर्लिङ्गेनेत्याह-'क्षतेन वेत्यादि, खदेहोद्भवमेव क्षतं, आगन्तुकस्तु श्वदंष्ट्रादिकृतो व्रणा, लाञ्छनमषतिलकास्तु प्रतीताः, तदयमत्र प्रयोगो-मत्पुत्रोऽयम्, अनन्यसाधारणक्षतादिलक्षणविशिष्टलिङ्गोपलब्धेरिति, साधयंवैधर्म्यदृष्टान्तयोः सत्त्वेतराभावादयमहेतुरिति चेत्, नैवं, हेतोः परमार्थेनैकलक्षणत्वात्, तहलेनैव गमकत्वोपलब्धेः, उक्तं च न्यायवादिना पुरुषचन्द्रेण-"अन्यथाऽनुपपन्नत्वमात्र हेतोः खलक्षणम् । सत्त्वासत्त्वे हि तद्धमौं, दृष्टान्तद्वयलक्षणे ॥१॥” तद्धर्माविति-अन्यथानुपपन्नत्वधमौं, कथम्भूते सत्त्वासत्त्वे इत्याह-साधर्म्यवैधर्म्यरूपे दृष्टान्तद्वये लक्ष्यते-निश्चीयते,अथ यदि दृष्टान्तद्वयलक्षणेन च धर्मिसत्तायां धर्माः सर्वेऽपि सर्वदा भवन्त्येव, पटादेः शुक्लत्वादिधर्मव्यभिचारात्, ततो दृष्टान्तयोः सत्त्वासत्त्वधर्मों यद्यपि
कचिद्धेतौ न दृश्येते तथापि धर्मिखरूपमन्यथानुपपन्नत्वं भविष्यतीति न कश्चिद्विरोध इति भावः । यत्रापि धू४मादौ दृष्टान्तयोः सत्त्वासत्त्वे हेतोदृश्यते तत्रापि साध्यान्यथानुपपन्नखस्यैव प्राधान्यात्तस्यैवैकस्य हेतुलक्ष
णताऽवसेया, तथा चाह- धूमादेयेंद्यपि स्यातां, सत्त्वासत्वे च लक्षणे । अन्यथानुपपन्नवप्राधान्याल्लक्षणेकता
दीप अनुक्रम [३००-३०९]
CROSC
JaEcon
~428~