________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ................................... मूलं [१४४] / गाथा ||११४...|| ..................... मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[१४४]
दीप
सूत्राभिप्रायतस्तु स्वकीयखकीयसामर्थेन जीवादिगत्युपष्टम्भे व्याप्रियमाणास्तस्य प्रदेशा बुद्धिपरिकल्पिता निर्विभागा भागाः पृथगेव द्रव्याणि, एवं अधर्माकाशास्तिकाययोरपि प्रत्येकं त्रयस्त्रयो भेदा वाच्याः, 'अदासमय' इत्यत्रैकवचनं वर्तमानकालसमयस्यैव एकस्य सत्वादतीतानागतयोस्तु निश्चयनयमतेन विनष्टत्वानुत्पन्नत्वाभ्यामसत्वाद, अत एवेह देशप्रदेशचिन्ता न कृता, एकस्मिन् समये निरंशवेन तदसम्भवात्, तदेवं दशविधान्यरूप्यजीवद्रव्याणि । रूप्यजीवद्रव्याणि तु स्कन्धादिभेदाचतुओं, तन्त्र स्कन्धा-यणुकादयोऽनन्ताणुकावसानाः, देशास्तु तद्विभागत्रिभागादिरूपा अवयवा, प्रदेशाः पुनस्तदवयवभूता एव निरंशा भागाः परमाणुपुद्गलाः स्कन्धभावमनापन्नाः एकाकिनः परमाणवः, तानि च रूपिद्रव्याण्यनन्तानि, कथमित्याह-'अणंता परमाणुपोग्गला' इत्यादि, एते च स्कन्धादयः प्रत्येकमनन्ताः । अथ जीवद्रव्याणि विचारयितुमाह-'जीवदवाणं भंते! किं संखेजा' इत्यादि, यस्मानारकादिराशयः प्रत्येकमसख्याताः वनस्पतयः सिद्धाश्चानन्ता अतो जीवद्रव्यापयनन्तान्येवेत्ययः ॥ १४४ ॥ तत्र नारकादयोऽसख्येयादिखरूपतः सामान न्येन प्रोक्ता विशेषतस्तु तदसख्येयकं कियत्प्रमाणमिति न ज्ञायते, औदारिकादिशरीरविचारे च तत्परिज्ञानं सिद्ध्यति औदारिकादिशरीरखरूपयोधश्च विनेयानां संपद्यते इति चेतसि निधाय जीवाजीवद्रव्यवि|चारप्रस्तावाच्छरीराणां तदुभयरूपत्वात्तानि विचारयितुमुपक्रमते
कइविहा णं भंते! सरीरा पं०?, गो०! पंच सरीरा पण्णता, तंजहा-ओरालिए वेङ
अनुक्रम [२९८]
JaEcon:
अथ 'शरीर' प्ररुपणा क्रियते
~392~