________________
आगम (४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
........... मूलं [१४३] / गाथा ||११३-११४|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [१४३]
अनुयो० मलधारीया
& वृत्तिः
उपक्रमे
प्रमाणद्वारं
गाथा: ||-II
तस्य पल्पस्यान्तर्गतास्ते केचिदप्याकाशप्रदेशा विद्यन्ते ये तैर्वालाप्रैरस्पृष्टाः ?, पूर्वोक्तप्रकारेण वालाग्राणां तत्र निविडतयाऽवस्थापनाच्छिद्रस्य कचिदप्यसम्भवाद् दुरुपपादमिदं यत्तत्रास्पृष्टा नभाप्रदेशाः सन्तीति प्रच्छकाभिप्रायः, तत्रोत्तरं-हन्तास्त्येतत्, नात्र सन्देहः कर्तव्यः, इदं च दृष्टान्तमन्तरेण वायात्रता प्रतिपसुमशक्तः पुनर्विनेयः पृच्छति-यथा कोऽत्र दृष्टान्तः?, प्रज्ञापक आह-'से जहानामए' इत्यादि, अयमत्र भावार्थ:-कूष्माण्डानां-पुंस्फलानां भृते कोष्ठके स्थूलदृष्टीनां तावद् भृतोऽयमिति प्रतीतिर्भवति, अथ कूष्माण्डानां बादरत्वात् परस्परं तानि छिद्राणि संभाव्यन्ते येष्वद्यापि मातुलिङ्गानि-बीजपूरकाणि मान्ति, तत्प्रक्षेपे च पुनर्भृतोऽयमिति प्रतीतावपि मातुलिङ्गच्छिद्रेषु चिल्वानि प्रक्षिप्लानि, तान्यपि मान्तीत्येवं तावद् यावत्सर्षपच्छिद्रेषु गङ्गावालुका प्रक्षिप्ता साऽपि माता, एवमर्वागदृष्टयो यद्यपि यथोक्तपल्ये शुषिराभावतोऽस्पृष्टनभाप्रदेशान्न संभावयन्ति तथापि वालाग्राणां बादरत्वादाकाशप्रदेशानां तु सूक्ष्मत्वात् सन्त्येवासडूख्याता अस्पृष्टा नभाप्रदेशाः, दृश्यते च निविडतया सम्भाव्यमानेऽपि स्तम्भादौ आस्फालितायाकीलकानां बहूनां तदन्तः प्रवेशः न चासौ शुषिरमन्तरेण संभवति, एवमिहापि भावनीयम् ॥ १४३ ॥
कइविहा णं भंते ! दव्या पण्णत्ता ?, गो०! दुविहा पण्णत्ता, तंजहा-जीवदव्वा य अजीवदवा य । अजीवदव्या णं भंते ! कइविहा पपणत्ता ?, गो०! दुविहा प०, तं
दीप अनुक्रम [२९३-२९७]
॥१९३॥
अथ जीवादि 'द्रव्य' प्ररुपणा क्रियते
~389~