________________
आगम
(४५)
प्रत
सूत्रांक
[१३४]
गाथा:
II--II
दीप
अनुक्रम [२५७
-२७०]
अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं+वृत्तिः)
मूलं [१३४] / गाथा ||१०१-१०२||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधारीया
॥ १७४ ॥
प्रभागाश्यामधिकं रज्जुत्रयविष्कम्भम्, इह चतुर्णां खण्डानां पर्यन्तेषु चत्वारोऽकुल सहस्रभागा भवन्ति, केवलमेकस्यां दिशि यौ ताभ्यां द्वाभ्यामप्येक एवाङ्गुल सहस्रभागः, एकदिग्वर्तित्वादेव, अपराभ्यामपि द्वाभ्यामिस्थमेवेत्यतस्तद्व्याधिकत्वमुक्तं देशोनससरज्जूच्छ्रितं, बाहल्यतस्तु ब्रह्मलोकमध्ये पञ्च रज्जुबाहल्यमन्यत्र त्वनियतं जायते, इदं च सर्वे गृहीत्वा आघस्त्यसंवर्तितलो कार्डस्योत्तरपार्श्वे संघात्यते, एवं च योजिते आधस्त्यखण्डस्योच्छ्रये यदितरोच्छ्रयादधिकं तद् खण्डित्वा उपरितनसङ्घातितखण्डस्य बाहल्ये ऊर्ध्वायत संघात्यते, एवं च सातिरेकाः पञ्च रजवः कचिद्वाहत्यं सिद्ध्यति, तथा आधस्त्य खण्डमधस्ताद्यथा सम्भवं देशोनससरज्जुबाहुल्यं प्रागुक्तम्, अत उपरितनखण्डबाहल्यादेशोनरज्जुद्वयमन्त्रातिरिच्यत इत्यस्मादतिरिच्यमानबाहल्यादर्द्ध गृहीत्वा उपरितनखण्डबाहल्ये संयोज्यते, एवं च कृते बाहल्यतस्तावत्सर्वमप्येतचतुर श्रीकृतन भाखण्डं कियत्यपि प्रदेशे रज्ज्वसङ्ख्येयभागाधिकाः षट् रज्जवो भवन्ति, व्यवहारतस्तु सर्वे सप्तरज्जुवाहरूयमिदमुच्यते, व्यवहारनयो हि किञ्चिन्यूनससहस्तादिप्रमाणमपि पटादिवस्तु परिपूर्ण सप्तहस्तादिमानं व्यपदिशति, देशतोऽपि च दृष्टं बाहल्यादिधर्म परिपूर्णेऽपि वस्तुन्यध्यवस्यति, स्थूलदृष्टित्वादिति भावः, अत एव तन्म| तेनैवात्र सप्तरज्जुबाहल्यता सर्वगता द्रष्टव्या, आयामविष्कम्भाभ्यां तु प्रत्येकं देशोनसप्तरज्जुप्रमाणमिदं जातं, व्यवहारतस्त्वत्रापि प्रत्येकं सप्तरज्जुप्रमाणता दृश्यते, तदेवं व्यवहारनयमतेनायामविष्कम्भबाहल्यैः १ खद् खपुण् भेदे इति चीरादिपाठेऽपि अनिल्यो णिचुरादीनामिति नात्र पिजागमः
For P&Praise City
~351~
वृत्तिः उपक्रमे प्रमाणद्वारं
॥ १७४ ॥
wyw