SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१३] दीप अनुक्रम [१४] “अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः) मूलं [१३] / गाथा ||१...|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः ॥ १५ ॥ क्षितमुच्यते, तदेवाविस्मरणतश्चेतसि स्थितं स्थितत्वात् स्थितमप्रच्युतमित्यर्थः, परावर्त्तनं कुर्व्वतः परेण वा कचित् पृष्टस्य यच्छीघमागच्छति तज्जितं, विज्ञातश्लोकपदवर्णादिसंख्यं मितं, परि-समन्तात्सर्व्वप्रकारैर्जितं * परिजितं परावर्त्तनं कुर्व्वतो यत्क्रमेणोत्क्रमेण वा समागच्छतीत्यर्थः, नाम अभिधानं तेन समं नामसमम्, ४ इदमुक्तं भवति - यथा स्वनाम कस्यचिच्छिक्षितं जितं मितं परिजितं भवति तथैतदपीत्यर्थः, घोषा- उदात्तादयः तैर्वाचनाचार्याभिहितघोषैः समं घोषसमं, यथा गुरुणा अभिहिता घोषास्तथा शिष्योऽपि यत्र शिक्षते तत् घोषसममिति भावः, एकद्व्यादिभिरक्षरैहीनं हीनाक्षरं न तथा अहीनाक्षरम्, एकादिभिरक्षरैरधिकमत्यक्षरं न तथा अनत्यक्षरम्, 'अब्वाइद्धक्खरं'ति विपर्यस्तरत्नमालागतरत्नानीव व्याविद्धानि विपर्यस्तान्यक्षराणि यत्र तद्व्याविद्वाक्षरं न तथाऽव्याविद्धाक्षरं, 'अब्वाइद्धमिति कचित्पाठः, तत्रापि व्याविद्धाक्षरयोगाद्व्याविद्धं न तथाऽव्याविद्धम्, उपलशकलाद्याकुलभूभागे लाङ्गलमिव स्खलति यत्तत् स्खलितं न तथाऽस्खलितम्, अनेकशास्त्रसम्बन्धीनि सूत्राण्येकत्र मीलयित्वा यत्र पठति तत् मिलितमसदृशधान्यमेलकवत्, अथवा परावर्त्तमानस्य यत्र पदादिविच्छेदो न प्रतीयते तन्मीलितं न तथाऽमीलितम्, एकस्मिन्नेव शास्त्रेऽन्यान्यस्थाननिवडान्येकार्थानि सूत्राण्येकत्र स्थाने समानीय पठतो व्यत्याम्रेडितम्, अथवा आचारादिसूत्रमध्ये स्वमतिचर्चितानि तत्सदृशानि सूत्राणि कृत्वा प्रक्षिपतो व्यत्याम्रेडितम्, अस्थानविरतिकं वा व्यत्याग्रेडितं न तथाऽव्यत्याग्रेडितं, सूत्रतो बिन्दुमात्रादिभिरनूनमर्थतस्त्वध्याहाराकाङ्क्षादिरहितं प्रतिपूर्णम्, उदात्तादिघोषैरविकलं अनुयो० मलधा रीया For P&False Cinly ~33~ वृत्तिः अनुयो० अधि० ॥ १५ ॥
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy