________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.............. मूलं [१३३] / गाथा ||९२...|| . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३३]
अनुयो मलधारीया
गाथा:
॥१५३॥
||-||
चतुर्भागवृद्धिलक्षणया अभ्यन्तरशिखया युक्तत्वाच्चाभ्यन्तरशिखायुक्तमित्युक्तं, तद्यथा-चतुःषष्टिकेत्यादि, वृत्तिः इदमुक्तं भवति-षड्पश्चाशदधिकशतद्वयपलमाना माणिकानाम वक्ष्यमाणं रसमानं, तस्य चतुःषष्टितमभा-|| गनिष्पन्ना अर्थादेव चतुष्पलप्रमाणा चतुःषष्टिका, एवं माणिकाया एव द्वात्रिंशत्तमभागवर्तित्वादष्टपल- प्रमाणद्वारं प्रमाणा द्वात्रिंशिका, तथा माणिकाया एव षोडशभागवर्तित्वात् षोडशपलप्रमाणा षोडशिका, तस्या एवाटमभागवर्तित्वात् द्वात्रिंशत्पलप्रमाणा अष्टभागिका, तस्या एव चतुर्भागवर्तित्वात् चतुःषष्टिपलमाना चतुभौगिका, तस्या एवा भागवर्तिनी अष्टाविंशत्यधिकपलशतमानार्दूमाणिका, इदं च बहुषु वाचनाविशे-है। षेषु न दृश्यत एव, षट्पञ्चाशदधिकशतद्वयपलप्रमाणा माणिका, द्वाभ्यां चतुःषष्टिकाभ्यामेका द्वात्रिंशिका |भवतीत्यादि गतार्थमेव, यावदेतेन रसमानप्रमाणेन किं प्रयोजनम् ?, अनोत्तरम्-'एतेन' रसमानप्रमाणेन वारकघटककरकगर्गरीतिककरोडिकाकुण्डिकासंश्रितानां रसाना-रसस्य यन्मानं तदेव प्रमाणं तस्य निवृत्तिः-सिद्धिस्तस्या लक्षणं-परिज्ञानं भवति, तत्रातीवविशालमुखा कुण्डिकैव करोडिका उच्यते, शेषं प्रतीतं, कचित् 'कलसिए'सि दृश्यते, तत्र लघुतर कलश एवं कलशिकेत्यभिधीयते, एवमन्यदपि वाचनान्तरमभ्यूयम् । 'सेत' मित्यादि निगमनद्वयम् । अथोन्मानमभिधित्सुराह
|M॥१५३॥ से किं तं उम्माणे ?, २ जण्णं उम्मिणिजइ, तंजहा-अद्धकरिसो करिसो पलं अद्ध
दीप अनुक्रम [२५३-२५६]
~309~