________________
आगम
(४५)
प्रत
सूत्रांक
[१३३]
गाथा:
II--II
दीप अनुक्रम [२५३
-२५६]
अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः)
मूलं [ १३३] / गाथा ||९२ ...||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
| प्रमाणं मानप्रमाणं धान्यविषयं मानप्रमाणं धान्यमानप्रमाणं तच 'दो असईओ' इत्यादि, अश्नुते तत्मभवत्वेन समस्तधान्यमानानि व्यामोतीत्यसतिः - अवाङ्मुखहस्ततलरूपा, तत्परिच्छिन्नं धान्यमपि तथोच्यते, तद्वयेन निष्पन्ना नावाकार ताव्यवस्थापितप्राञ्जलकरतलरूपा प्रसृतिः द्वे च प्रसृती सेतिका, सा च नेह प्रसिद्धा गृह्यते, मागधदेशमसिद्धस्यैवात्र मानस्य प्रतिपिपादयिषितत्वाद्, अत इयं तत्प्रसिद्धा काचिदवगन्तब्या, चतस्रः सेतिकाः कुडवः, ते चत्वारः प्रस्थः, अमी चत्वार आढक इत्यादि सूत्रसिद्धमेव, यावदष्टभि राढकशतैर्निर्वृत्तो वाह:, अत्राह शिष्यः एतेनासत्यादिना धान्यमानप्रमाणेन किं प्रयोजनं किमनेन विधीयते इत्यर्थः, अत्रोत्तरं, एतेन धान्यमानप्रमाणेन 'मुक्तोलीमुखेदुरालिन्दापचारिसंश्रितानां मुक्तोल्याद्याधारगतानां धान्यानां धान्यस्य यन्मानम् इयत्तालक्षणं तदेव प्रमाणं तस्य निर्वृत्ति सिद्धिस्तस्या लक्षणं-परिज्ञानं भवति, एतावदत्र धान्यमस्तीति परिज्ञानं भवतीत्यर्थः, तत्र मुक्तोली-मोहा [दा ] अघ उपरि च सङ्कीर्णा मध्ये त्वीपद्विशाला कोष्टिका, मुखं गध्या उपरि यदीयते, सुम्बादिव्यूतं ढञ्चनकादि तदिदूरं, आलिन्दकंकुण्डुल्कम् अपचारि-दीर्घतरधान्यकोष्ठाकारविशेषः । रसमानप्रमाणमाह- 'से किं तमित्यादि, रसो-मयादिस्तद्विषयं मानमेव प्रमाणं रसमानप्रमाणं किमित्याह - धान्यमानप्रमाणात् सेतिकादेश्चतुर्भागविवर्द्धितं - चतुर्भागाधिकम् अभ्यन्तरशिखायुक्तं यद् रसमानं विधीयते क्रियते तद्रसमानप्रमाणमुच्यते, धान्यस्याद्रवरूपत्वात्किल शिखा भवति, रसस्य तु द्रवरूपत्वान्न शिखासम्भवोऽतो बहिः शिखाभावात् धान्यमाना
For P&Praise City
~308~