SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [११] दीप अनुक्रम [१२] “अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्तिः) मूलं [११] / गाथा ||१...|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः पना खावश्यकत्वेन योऽक्षः स्थापितः स क्षणान्तरे पुनरपि तथाविधप्रयोजनसम्भवे इन्द्रत्वेन स्थाप्यते, पुनरपि च राजादित्वेनेत्यल्पकालवर्त्तिनी, शाश्वतप्रतिमादिरूपा तु यावत्कथिका वर्त्तते तस्याचार्हदादिरूपेण सर्वदा तिष्ठतीति स्थापनेति व्युत्पत्तेः स्थापनात्वमवसेयं, न तु स्थाप्यत इति स्थापना, शाश्वतत्वेन केनापि स्थापयमानत्वाभावादिति, तस्माद्भावशून्यद्रव्याधारसाम्येऽप्यस्त्यनयोः कालकृतो विशेषः । अत्राह ननु यथा स्थापना | काचिदल्पकालीना तथा नामापि किञ्चिदल्पकालीनमेव, गोपालदारकादौ विद्यमानेऽपि कदाचिदनेकनामपरावृत्तिदर्शनाद्, सत्यं, किन्तु प्रायो नाम यावत्कधिकमेव, यस्तु कचिदन्यथोपलम्भः सोऽल्पत्वान्नेह विवक्षित इत्यदोषः । उपलक्षणमात्रं चेदं कालभेदेनैतयोर्भेदकथनम्, अपरस्यापि बहुप्रकारभेदस्य सम्भवात् तथाहि यथेन्द्रादिप्रतिमास्थापनायां कुण्डलाङ्गदादिभूषितः सन्निहितशचीवज्रादिराकार उपलभ्यते न तथा नामेन्द्रादौ एवं यथा तत्स्थापनादर्शनाद् भावः समुल्लसति नैवमिन्द्रादिश्रवणमात्राद्, यथा च तत्स्थापनायां लोकस्योपयाचितेच्छापूजाप्रवृत्तिसमीहितलाभादयो दृश्यन्ते नैवं नामेन्द्रादावित्येवमन्यदपि वाच्यमिति ॥ ११ ॥ उक्तं स्थापनावश्यकम्, इदानीं द्रव्यावश्यक निरूपणाय प्रश्नं कारयति - से किं तं दव्वावस्सयं ?, २ दुविहं पण्णत्तं, तंजहा - आगमओ अ नोआगमओ अ (सू० १२) अथ किं तत् द्रव्यावश्यकमिति पृष्ठे सत्याह- 'दव्वावस्सयं दुविहमित्यादि' तत्र द्रवति-गच्छति तांस्तान्पर्यायानिति द्रव्यं विवक्षितयोरतीतभविष्यद्भावयोः कारणम्, अनुभूतविवक्षित भावमनु भविष्यद्विवक्षतभावं वा अथ द्रव्य आवश्यकस्य भेद-प्रभेदयुक्त विस्तृत वर्णनं क्रियते For P&Pale Cnly ~30~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy