SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१२९] गाथाः ॥१-६|| दीप अनुक्रम [२०५ -२१२] अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:) मूलं [१२९] / गाथा ||५७-६२|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः ऐदयुगीनानां त्वसौ प्रथमेवेति मन्तव्यमिति । इह च नामविचारप्रस्तावात् प्रथमादिविभक्त्यन्तं नामैव गृह्यते, तथा (च्चा) ष्टविभक्तिभेदादष्टविधं भवति, न च प्रथमादिविभक्त्यन्तनामाष्टकमन्तरेणापरं नामास्ति, अतोऽनेन नामाष्टकेन सर्वस्य वस्तुनोऽभिधानद्वारेण सङ्ग्रहादष्टनामेदमुच्यते इति भावार्थ: । (ग्रन्थाग्रं० ३००० ) 'से तं अट्टनामेत्ति निगमनम् ॥ १२९ ॥ अथ नवनाम निर्दिशन्नाह से किं तं नवनामे ?, २ णव कव्वरसा पण्णत्ता, तंजहा - वीरो सिंगारो अब्भुओ अ रोदो अ होइ बोधव्वो । वेलणओ बीभच्छो हासो कल्लुणो पसंतो अ ॥ १ ॥ नवनाग्नि नव काव्यरसाः प्रज्ञप्ताः, तत्र कवेरभिप्रायः काव्यं, रस्यन्ते अन्तरात्मनाऽनुभूयन्त इति रसाः, तत्तत्सहकारिकारणसन्निधानोद्भूताश्चेतोविकारविशेषा इत्यर्थः, उक्तं च- “बाह्यार्थालम्बनो यस्तु, विकारो मानसो भवेत् । स भावः कथ्यते सद्भिस्तस्योत्कर्षो रसः स्मृतः ॥ १ ॥” काव्येषूपनिबद्धा रसाः काव्यरसाः- वीरशृङ्गारादयः, तानेवाह - 'वीरो सिंगारों' इत्यादिगाथा सुगमा, नवरं 'शूर वीर विक्रान्ता' विति वीरयति - विक्रामयति त्यागतपोवैरिनिग्रहेषु प्रेरयति प्राणिनमित्युत्तमप्रकृतिपुरुष चरितश्रवणादिहेतुसमुद्भूतो दानाद्युत्साहमकर्षात्मको वीरो, रस इति सर्वत्र गम्यते, शृङ्गं सर्वरसेभ्यः परमप्रकर्ष कोटिलक्षणमियति गच्छतीति कमनीयकामिनीदर्शनादिसम्भवो रतिप्रकर्षात्मकः शृङ्गारः, सर्वरसप्रधान इत्यर्थः, अत एव For P&Pase Cinly ~272~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy