________________
आगम
(४५)
प्रत
सूत्रांक
दीप
अनुक्रम [१०]
“अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्तिः)
मूलं [९] / गाथा ||१...||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
शुष्कोऽचिन्तो बहुकोटराकीर्णो वृक्षोऽन्यो वा तथाविधः कश्चित्पदार्थविशेषः सर्पादेरावा सोऽयमिति लौकिकैर्व्यपदिश्यत एव स च वृक्षादिर्यद्यप्यनन्तेः परमाणुलक्षणैरजीवद्रव्यैर्निष्पन्नस्तथाऽप्येकस्कन्ध परिणतिमाश्रित्य एकाजीवत्वेन विवक्षित इति स्वार्थिककप्रत्ययोपादानादेकाजी व स्यावासकनाम सिद्धं जीवानामपि बहूनामावासकनाम दृश्यते यथा इष्टकापाकाद्यग्निर्मूषिकावास इत्युच्यते, तत्र नौ किल मूषिकाः संमूर्च्छन्ति अतस्तेषामसंख्येयानामग्निजीवानां पूर्ववदावासकं नाम सिद्धम्, अजीवानां तु यथा नीडं पक्षिणामावास इत्युच्यते, तद्धि बहुभिस्तृणाद्यजीवैर्निष्पद्यते इति बहूनामजीवानामावासकनाम भवति, इदानीमुभयस्यावासकसंज्ञा भाव्यते तत्र गृहदीर्घिकाऽशोकवनिकाद्युपशोभितः प्रासादादिप्रदेशो राजादेरावास उच्यते, सौधमदिविमानं वा देवानामावासोऽभिधीयते, अत्र च जलवृक्षादयः सचेतनरत्नादयश्च जीवा इष्टकाकाष्ठादयोऽचेतनरत्नादयश्चाजीवास्तन्निष्पन्नमुभयं तस्य कप्रत्ययोपादाने आवासकसंज्ञा सिद्धा, उभयानां त्वावासकसंज्ञा यथा संपूर्ण नगरादिकं राजादीनामावास उच्यते, संपूर्णः सौधर्म्मादिकल्पो वा इन्द्रादीनामावासोऽभिधीयते, अन च पूर्वोक्तप्रासादविमानयोर्लघुत्वादेकमेव जीवाजीवोभयं विवक्षितमत्र तु नगरादीनां सौधर्म्मादिकल्पानां च महत्वाहहूनि जीवाजीवोभयानि विवक्षितानीति विवक्षया भेदो द्रष्टव्यः एवमन्यत्रापि जीवादीनामावासकसंज्ञा यथासंभवं भावनीया, दिगमात्रप्रदर्शनार्थत्वादस्य । निगमयन्नाह - 'से तमित्यादि' से तमित्यादि वा कचित् पाठः, तदेतन्नामावश्यकमित्यर्थः ॥ ९ ॥ इदानीं स्थापनावश्यकनिरूपणार्थमाह
For P&Pase Cnly
~26~