________________
आगम
(४५)
प्रत
सूत्रांक
[१२८]
गाथा:
॥१-३२||
दीप
अनुक्रम
[१६४
-२०४]
अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः)
मूलं [ १२८] / गाथा ||२५||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
वाचि - "वायुः समुत्थितो नाभेरुरो हृदि समाहतः । नाभिं प्राप्तो महानादो, मध्यमत्वं समश्रुते ॥ ४ ॥” तथा पञ्चानां षड्जादिखराणां निर्देशक्रममाश्रित्य पूरणः पञ्चमः, अथवा पञ्चसु - नाभ्यादिस्थानेषु मातीति पञ्चमः खरो, यदभ्यधायि – “वायुः समुत्थितो नाभेरुरोहत्कण्ठशिरोहतः । पञ्चस्थानोत्थितस्यास्य, पञ्चमत्वं विधीयते ॥ ५ ॥” तथाऽभिसन्धयतेऽनुसंघयति शेषखरानिति निरुक्तिवशाद्वैवतः, यदुक्तम्- "अभिसंघयते यस्मादेतान् पूर्वोदितखरान् । तस्मादस्य खरस्यापि धैवतत्वं विधीयते ॥ ६ ॥ पाठाउन्तरेण रैवतश्चैवेति तथा निषीदन्ति खरा यस्मिन् स निषादः, यतोऽभिहितम् - "निषीदन्ति स्वरा यस्मि निषादस्तेन हेतुना । सर्वाश्राभिभवत्येव यदादित्योऽस्य दैवतम् ॥ ७ ॥ इति, तदेवं खराः- जीवाजीवनिश्रितध्वनिविशेषाः 'सत्त विग्राहियत्ति विविधप्रकारैराख्यातास्तीर्थकर गणधरैरिति श्लोकार्थः । आह-ननु कारक्षणभेदेन कार्यस्य भेदात् खराणां च जिहादिकारणजन्यत्वात् तद्वतां च द्वीन्द्रियादित्रसजीवानामसङ्ख्येयत्वाजीवनिसृता अपि तावत् खरा असङ्ख्याताः प्राप्नुवन्ति किमुताजीवनिसृता इति कथं सप्तसङ्ख्यानियमो न विरुध्यत इति ?, अत्रोच्यते, असङ्ख्यातानामपि स्वरविशेषाणामेतेष्वेव सप्तसु सामान्यखरेध्वन्तर्भावाद् वादराणां वा केषाञ्चिदेवोपलभ्यमानविशिष्टव्यक्तीनां ग्रहणाद्गीतोपकारिणां विशिष्टखराणां वक्तुमिष्टत्वाददोष इति । खरान्नामतो निरूप्य कारणतस्तानेवाभिधित्सुराह
१ नवाक्षरोऽयं पदः
For P&P Cy
~ 258~