________________
आगम
(४५)
प्रत
सूत्रांक
[<]
दीप
अनुक्रम
[S]
“अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्तिः)
मूलं [८] / गाथा ||१...||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
श्यमात्मानं करोतीत्यावश्यक, यथा अन्तं करोतीति अन्तकः, अथवा आवस्सयति प्राकृतशैल्या आवासकं, तत्र 'वस निवासे' इति गुणशून्यमात्मानम् आ-समन्तात् वासयति गुणैरित्यावासकं, 'चउन्विहं पण्णत्तंति' चतस्रो विधा-भेदा अस्येति चतुर्विधं प्रज्ञप्तं प्ररूपितमर्थतस्तीर्थकरैः सूत्रतो गणधरैः, तद्यथा - 'नामावस्सयमित्यादि । नाम-अभिधानं तद्रूपमावश्यकं नामावश्यकम् आवश्यकाभिधानमेवेत्यर्थः, अथवा नाम्ना नाममात्रेणावश्यकं नामावश्यकं जीवादीत्यर्थः, तल्लक्षणं चेदम्- “यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं च नाम यादृच्छिकं च तथा ॥ १ ॥ विनेयानुग्रहार्थमेतद्याख्या- यद्वस्तुन इन्द्रादे: 'अभिधानम्' इन्द्र इत्यादिवर्णावलीमात्रमिदमेव च आवश्यक लक्षणवर्णचतुष्टयावलीमात्रं यत्तदोर्नित्याभिसंबन्धात्तन्नामेति संङ्कः, अथ प्रकारान्तरेण नाम्नो लक्षणमाह - 'स्थितमन्यार्थे तदर्थनिरपेक्षं पर्यायानभिधेयं चेति' तदपि नाम, यत्कथंभूतमित्याह- अन्य श्वासावर्थश्चान्यार्थी -गोपालदारकादिलक्षणः तत्र स्थितम्, अन्यत्रेन्द्रादावर्थे यथार्थत्वेन प्रसिद्धं सदन्यत्र गोपालदारकादौ यदारोपितमित्यर्थः, अत एवाह - 'तदर्थनिरपेक्षम्' इति, तस्य- इन्द्रादिनानोऽर्थ:-परमैश्वर्यादिरूपस्तदर्थः, स चासावर्थश्चेति वा तदर्थः, तस्य निरपेक्षं गोपालदारकादौ तदर्थस्याभावात् पुनः किंभूतं तदित्याह - 'पर्यायानभिधेयमिति' पर्यायाणां शक्रपुरन्दरादीनामनभिधेयम् अवाच्यं, गोपालदारकादयो हीन्द्रादिशब्देरुध्यमाना अपि शचीपत्यादिरिव शक्रपुरन्दरादिशब्दैर्नाभिधीयन्ते, अतस्तनामापि नामतद्वतोरभेदोपचारात्पर्यायानभिधेयमित्युच्यते, चशन्दो नान एवं लक्षणान्तरसूचकः, शची
For P&Palle Chly
~ 24~