________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.............. मूलं [१२७] / गाथा ||२३...|| .. मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[१२७]
अज्ञानं मत्यज्ञानं, कुत्सितत्त्वं चेह मिथ्यादर्शनोदयदूषितत्वात् द्रष्टव्य, दृष्टा च कुत्सार्थे नत्रो वृत्तिः, यथा कुत्सितं शीलमशीलमिलि, मत्यज्ञानस्य लब्धि:-योग्यता, साऽपि वावरणक्षयोपशमेनैव निष्पद्यते, एवं श्रुताज्ञानलब्धिरपि वाच्या, भङ्गः प्रकारो भेद इत्यर्थः, स चेह प्रक्रमादवधिरेच गृह्यते, विरूप:-कुत्सितो भङ्गो विभङ्गः स एवार्थपरिज्ञानात्मकत्वात् ज्ञानं विभङ्गज्ञानं, मिथ्यादृष्टिदेवादेरवधिर्विभङ्गज्ञानमुच्यते इत्यर्थः, इह च विशब्देनैव कुत्सितार्थप्रतीतेने नो निर्देशः, तस्य लब्धिः-योग्यता साऽपि वावरणक्षयोपशमेनैव प्रादु|रस्ति, एवं मिथ्यात्वादिकर्मणः क्षयोपशमसाध्या शेषा अपि सम्यग्दर्शनादिलब्धयो यथासम्भवं भावनीयाः, नवरं वाला-अविरताः पण्डिताः-साधवः बालपण्डितास्तु-देशविरताः तेषां यथारखं वीर्यलब्धिीर्यान्तरापकर्मक्षयोपशमादावनीया, इन्द्रियाणि चेह लब्ध्युपयोगरूपाणि भावेन्द्रियाणि गृह्यन्ते, तेषां च लन्धिःयोग्यता मतिश्रुतज्ञानचक्षुरचक्षुर्दर्शनावरणक्षयोपशमजन्यत्वात् क्षायोपशमिकीति भावनीयम्, आचारधरत्वादिपर्यायाणां च श्रुतज्ञानप्रभवत्वात् तस्य च तदावरणकर्मक्षयोपशमसाध्यत्वादाचारधरादिशब्दा इह पश्यन्ते इति प्रतिपत्तव्यम् । 'से तमित्यादि निगमनद्वयम् ॥ अथ पारिणामिकभावमाश्रित्याह
से किं तं पारिणामिए?, २ दुविहे पण्णत्ते, तंजहा-साइपारिणामिए अ अणाइपारिणामिए अ । से किं तं साइपारिणामिए?, २ अणेगविहे पण्णत्ते तंजहा-जुण्णसुरा
+++CHCRAC4%954
दीप अनुक्रम [१६१]
~ 242~