________________
आगम
(४५)
प्रत
सूत्रांक
[१२७]
दीप
अनुक्रम [१६१]
अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः)
मूलं [ १२७] / गाथा ||२३...|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
-क्षीणायुरिति, आयुः कर्मविप्रमुक्त इति निगमनं । नामकर्म सामान्येन शुभाशुभ भेदतो द्विविधं, विशेषतस्तु गतिजातिशरीराङ्गोपाङ्गादिभेदाद् द्विचत्वारिंशदादिभेदं स्थानान्तरादवसेयं, तत्रेह तत्क्षयभावीमि कियन्ति तन्नामानि अभिधत्ते- 'गइजाइसरीरे' त्यादि, इह प्रक्रमान्नामशब्दो यथासम्भवं द्रष्टव्यः, ततश्च नारकादिगतिचतुष्टय हेतुभूतं गतिनाम, एकेन्द्रियादिजातिपश्चक कारणं जातिनाम, औदारिकादिशरीरपञ्चकनिबन्धनं शरीरनाम, औदारिकवैक्रियाहारकशरीरत्र्याङ्गोपाङ्गनिर्वृत्तिकारणमङ्गोपाङ्गनाम, काष्ठादीनां लाक्षादिद्रव्यमिव शरीरपञ्चकपुङ्गलानां परस्परं बन्धहेतुर्बन्धननाम, तेषामेव पुद्गलानां परस्परं बन्धनार्थमन्योऽन्यसांनिध्यलक्षणसङ्घातकारणं काष्ठसन्निकर्षकृत् तथाविधकर्मकर इव सङ्घातनाम, कपाटादीनां लोहपट्टादिरिवौ| दारिकशरीरास्त्रां परस्परबन्धविशेषनिबन्धनं संहनननाम, एतच्च बन्धनादिपदत्रयं कचिद्वाचनान्तरे न दृश्यत इति, बोन्दिस्तनुः शरीरमिति पर्यायाः, अनेकाञ्च ता नानाभवेषु बहीनां तासां भावात् तस्मिन्नेव वा भवे जघन्यतोऽप्यौदारिकतैजसकार्मणलक्षणानां तिसृणां भावाद बोन्यश्चानेकबोन्यस्तासां वृन्दं पटलं तदेव पुङ्गलसधातरूपत्वात् सङ्घातोऽनेक बोन्दिवृन्द सङ्घातः, गत्यादीनां च द्वन्द्वे गतिजातिशरीराङ्गोपाङ्गबन्धनसंघातनसंहनन संस्थानानेक बोन्दिवृन्दसङ्घातास्तैर्विप्रमुक्तो यः स तथा, प्राक्तनेन शरीरशब्देन शरीराणां निबन्धनं नामकर्म गृहीतं, बोन्दिवृन्दग्रहणेन तु तत्कार्यभूतशरीराणामेव ग्रहणमिति विशेषः, क्षीणम्-अपगतं तीर्थकरशुभसुभगसुखराद्रेययशः कीत्यादिकं शुभं नाम यस्य स तथा, क्षीणम्-अपगलं नरकगत्यशुभदुर्भगदुःखरा
For P&Praise Chy
~238~
way w