________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.............. मूलं [१२७] / गाथा ||२३...|| .. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[१२७]
दीप अनुक्रम [१६१]
दयजनितानां नारकत्वादीनां भवत्विहोपन्यासों लेश्यास्तु कस्यचित् कर्मण उदथे भवन्तीत्येतन्न प्रसिद्धं | तत्किमितीह तदुपन्यासः, सत्यं, किन्तु योगपरिणामो लेश्याः, योगस्तु त्रिविधोऽपि कर्मोदयजन्य एव, ततो लेश्यानामपि तदुभयजन्यत्वं न विहन्यते, अन्ये तु मन्यन्ते-कर्माष्टकोदयात् संसारस्थत्वासिद्धत्ववल्लेश्या-14 वत्त्वमपि भावनीयमित्यलं विस्तरेण, तदर्थना तु गन्धहस्तिवृत्तिरनुसर्तव्येति, ‘से तं जीवोदयनिष्फपणे त्ति निगमनम् । अथाजीवोदयनिष्पन्नं निरूपयितुमाह-से किं तमित्यादि, 'ओरालियं वा सरीरीति विशिष्टाकारपरिणतं तिर्यङ्मनुष्यदेहरूपमौदारिकं शरीरं, 'उरालिअसरीरप्पओगे'इत्यादि, औदारिकशरीरप्रयोगप|रिणामितं द्रव्यम् , औदारिकशरीरस्य प्रयोगो-व्यापारस्तेन परिणामितं स्वप्रयोगित्वात् गृहीतं तत्तथा, तच्च वर्णगन्धरसस्पर्शानापानादिरूपं स्वत एवोपरिष्टाद् दर्शयिष्यति, वाशब्दौ परस्परसमुच्चये, एतद्वितयमप्यजीवेपुद्गलद्रव्यलक्षणे औदारिकशरीरनामकर्मोदयेन निष्पन्नत्वादजीवोदयनिष्पन्न औदधिको भाव उच्यते, एवं वैक्रियशरीरादिष्वपि भावना कार्या, नवरं वैक्रियशरीरनामकर्माद्युदयजन्यत्वं यथावं वाच्यमिति । औदारिकादिशरीरप्रयोगेण यत् परिणम्यते द्रव्यं तत् खत एव दर्शयितुमाह-पओगपरिणामिए वपणे इत्यादि, पश्चानामपि शरीराणां प्रयोगेण-व्यापारेण परिणामितं-गृहीतं वर्णादिकं शरीरवर्णादिसम्पादक द्रव्यमिदं द्रष्टव्यम् , उपलक्षणत्वाच वर्णादीनामपरमपि यच्छरीरे संभवत्यानापानादि तत् स्वत एव दृश्यमिति । अत्राह-ननु यथा नारकत्वादयः पर्याया जीवे भवन्तीति जीवोदयनिष्पन्ने औदयिके पश्यन्ते, एवं शरीराण्यपि जीव एव भव
अनु.२०
JaEcuamine
~232~