________________
आगम
(४५)
प्रत
सूत्रांक
[१२४]
दीप
अनुक्रम
[१५१
- १५८]
अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:)
मूलं [१२४] / गाथा ||१८-२३||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
किं तं संठाणनामे ?, २ पंचविहे पण्णत्ते, तंजहा - परिमंडलसंठाणनामे वहसं० तं ससं० चउरंससं० आयतसंठाणणामे, से तं संठाणनामे से तं गुणणामे ।
यत एवेदं त्रिनाम तत एव त्रिविधं - त्रिप्रकारं, द्रव्यनामादिभेदात्, तत्र द्रवति-गच्छति ताँस्तान् पर्यायान प्राप्नोतीति द्रव्यं तस्य नाम धर्मास्तिकाय इत्यादि, धर्मास्तिकायादयश्च प्राक् व्याख्याता एव, गुण्यन्ते-संख्यायन्ते इति गुणास्तेषां नाम गुणनाम, 'वण्णनामे' इत्यादि, तत्र वर्ण्यते- अलङ्कियते वस्त्वनेनेति वर्ण:कृष्णादिःपञ्चधा प्रतीत एव, कपिशादयस्त्वेतत्संयोगेनैवोत्पद्यन्ते न पुनः सर्वधा एतद्विलक्षणा इति नेहोदाहृताः, गन्ध्यते - आघायत इति गन्धस्तस्य नाम गन्धनाम, स च द्विविधः सुरभिर्दुरभिव, तत्र सौमुख्यकृत् सुरभिः, | वैमुख्यकृद् दुरभिः, अत्राप्युभयसंयोगजः पृथनोक्तः, एतत्संसर्गजत्यादेव भेदाविवक्षणात्, रस्यते-आस्खाद्यत इति रसस्तस्य नाम रसनाम, स च तिक्तकटुकषायाम्लमधुर भेदात् पञ्चविधः, तत्र श्लेष्मादिदोषहन्ता निम्वाद्याश्रितस्ततो रसः, तथा च भिषकशास्त्रम्- “श्लेष्माणमरुचिं पित्तं, तृषं कुष्ठं विषं ज्वरम् । हन्यात् तितो रसो बुद्धे, कर्ता मात्रोपसेवितः ॥ १ ॥" गलामयादिप्रशमनो मरिचनागराद्याश्रितः कटुः, उक्तं च - "कदुर्गलामयं शोफं, हन्ति युक्त्योपसेवितः । दीपनः पाचको रुच्यो, बृंहणोऽतिकफापहः ॥ २ ॥” रक्तदोषाद्यपहर्ता बिभीतकामलककपित्थाद्याश्रितः कषायः, आह च- "रक्तदोषं कफं पित्तं कषायो हन्ति
For P&Praise City
~ 222~
y