SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [११९] + गाथा |||| दीप अनुक्रम [१४२ -१४४] अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्तिः) मूलं [११९] / गाथा ||१६|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधारीया ॥ १०२ ॥ व्यमिदमतो गच्छाम्यहमित्येवं गुरुं प्रति निवेदना आवश्यकीति हृदयं ४, निषेधे भवा नैषेधिकी उपाश्रयाहू| हिः कर्तव्यव्यापारेष्ववसितेषु पुनस्तत्रैव प्रविशतः साधोः शेषसाधूनामुत्रासादिदोषपरिजिहीर्षया बहिर्व्या| पारनिषेधेनोपाश्रयप्रवेशसूचनान्नैषेधिकीति परमार्थः ५, भदन्त ! करोमीदमित्येवं गुरोः प्रच्छनमाप्रच्छना ६, एकदा पृष्टेन गुरुणा नेदं कर्तव्यमित्येवं निषिद्धस्य विनेयस्य किञ्चिद्विलम्ब्य ततश्चेदं चेदं चेह कारणमस्त्यतो यदि पूज्या आदिशन्ति तदा करोमीत्येवं गुरोः पुनः प्रच्छनं प्रतिप्रच्छना, अथवा ग्रामादौ प्रेषितस्य गमनकाले पुनः प्रच्छनं प्रतिप्रच्छना ७, छन्द' छदि संवरण' इत्यस्यानेकार्थत्वात् कुरु ममानुग्रहं परिभुङ्क्ष्वेदमित्येवं पूर्वानीताशनादिपरिभोगविषये साधूनामुत्साहना छन्दना ८, इदं वस्तु लब्ध्वा ततोऽहं तुभ्यं दास्यामीत्येवमथाप्यगृहीतेनाशनादिना साधूनामामन्त्रणं निमन्त्रणा, उक्तं च- पुब्वगहिरण छंदण निमंत्रणा होई अगहिएणं"ति ९, त्वदीयोऽहमित्येवं श्रुताद्यर्थमन्यदीयसत्ताभ्युपगम उपसम्पदिति १० । एवं एते दशप्रकारा: काले यथास्वं प्रस्तावे विधीयमाना दशविधा सामाचारीति गाथार्थः । इह धर्मस्था परोपतापमूलत्वादिच्छाकारस्याज्ञाबलाभियोगलक्षणपरोपतापवर्जकत्वात् प्राधान्यात् प्रथममुपन्यासः, अपरोपताप केनापि च कथञ्चित् स्खलने | मिथ्यादुष्कृतं दातव्यमिति तदनन्तरं मिथ्याकारस्य, एतौ च गुरुवचनप्रतिपत्तावेव ज्ञातुं शक्यौ, गुरुवचनं च तथाकारकरणेनैव सम्पक प्रतिपन्नं भवतीति तदनन्तरं तथाकारस्य, प्रतिपन्नगुरुवचनेन चोपाश्रयाइहि १ पूर्वगृहीतेन इन्दना निमश्रणा भवत्यगृहीतेन. For P&P Cy ~209~ वृत्तिः उपक्र माधि० ॥ १०३ ॥
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy