SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१०५ -११२] दीप अनुक्रम [१२६ -१३५] अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः) मूलं [१०५ - ११२] / गाथा ||१५|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः - कालं स्थित्वा पुनस्तमेव पूर्वानुभूतं परिणाममासादयति तदाऽसङ्ख्यात उत्कृष्टान्तरकालो भवति, आक्षेपपरिहाराचत्राप्यनानुपूर्वीवत् द्रष्टव्याविति । नानाद्रव्यान्तरं तु नास्ति, सर्वदा लोके तद्भावादिति । उक्तमन्तरद्वारं, भागद्वारे तु यथा द्रव्यक्षेत्रानुपूर्व्यास्तथैवानुपूर्वीद्रव्याणि शेषद्रव्येभ्योऽसङ्ख्येपैर्भागैरधिकानि व्याख्येयानि शेषद्रव्याणि त्वानुपूर्वीद्रव्याणामसङ्ख्येयभाग एव वर्तन्त इति, भावना वित्थं कर्तव्या - इहा| नानुपूर्व्यामेकसमयस्थितिलक्षणमेकमेव स्थानं लभ्यते, अवक्तव्यकेष्वपि द्विसमयस्थितिलक्षणमेकमेव तलभ्यते, आनुपूर्व्या तु त्रिसमयचतुः समयपश्चसमयस्थित्यादीन्येकोत्तरवृद्ध्याऽसङ्ख्ये य समयस्थित्यन्तान्यसङ्ख्येयानि स्थानानि लभ्यन्त इत्यानुपूर्वीद्रव्याणामसरूपेयगुणत्वम्, इतरयोस्तु तदसङ्ख्येय भागवर्तित्वमिति भावद्वारे सादिपारिणामिकभाववर्तित्वं त्रयाणामपि पूर्ववद्भावनीयम् । अल्पबहुत्वद्वारे सर्वस्तोकान्यवक्तव्यकद्रव्याणि, दिसमयस्थितिकद्रव्याणां स्वभावत एव स्तोकत्वादू, अनानुपूर्वीद्रव्याणि तु तेभ्यो विशेषाधिकानि, एकसमयस्थितिकद्रव्याणां निसर्गत एव पूर्वेभ्यो विशेषाधिकत्वाद्, आनुपूर्वीद्रव्याणां तु पूर्वेभ्योऽसङ्ख्यातगुणत्वं भागद्वारे भावितमेव, शेषं तु क्षेत्रानुपूर्व्यायुक्तानुसारतः सर्व वाच्यमिति । अत एव केषुचिवाचनान्तरेषु भागादिद्वारत्रयं क्षेत्रानुपूर्व्यतिदेशेनैव निर्दिष्टं दृश्यते, न तु विशेषतो लिखितमिति । 'से तमित्यादि निगमनम् । उक्ता नैगमव्यवहारनयमतेनानोपनिधिकी कालानुपूर्वी, अथ संग्रहनयमतेन तामेव व्याचिख्यासुराह For P&Pase Cnly ~ 198~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy