________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
........... मूलं [१०५-११२] / गाथा ||१५R|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१०५-११२]
गाथा
शेष आनुपूर्वीति, आह-ननु यदि द्रव्यविशेष एवात्राप्यानुपूर्वी कथं तर्हि तस्य कालानुपूर्वीवी, नैतदेवम् , अभिप्रायापरिज्ञानाद्, यतः समयत्रयलक्षणकालपर्यायविशिष्टमेव द्रव्यं गृहीतं, ततश्च पर्यायपायिणोः कथश्चिदभेदात् कालपर्यायस्य चेह प्राधान्येन विवक्षितत्वाद् द्रव्यस्यापि विशिष्टस्य कालानुपूर्वीत्वं न दुष्यति, मुख्यं समयत्रयस्यैवात्रानुपूर्वीस्वं, किन्तु विशिष्टद्रव्यस्थापि तदभेदोपचारात्तदुक्त इति भावः, एवं चतु:समय-15 | स्थित्यादिष्वपि वाच्यं, यावद्दश समयाः स्थितिर्यस्य परमाण्वादिद्रव्यसङ्घातस्य स तथा, सख्येयाः समयाः स्थितिर्यस्य परमाण्वादेः स तथा, असङ्ख्येयाः समयाः स्थितिर्यस्य परमाण्वादेः स तथा, अनन्तास्तु समया द्रव्यस्य स्थितिरेव न भवति, खाभाव्या, इत्युक्तमेवेति, शेषा बहुवचननिर्देशादिभावना पूर्ववदेव, एकसमयस्थितिक परमाण्वाद्यनन्ताणुकस्कन्धपर्यन्तं द्रव्यमनानुपूर्वी, बिसमयस्थितिकं तु तदेवावक्तव्यकमिति, शेषं पूर्वोक्तानुसारेण सर्व भावनीयं, यावद् द्रव्यप्रमाणद्वारे 'नो संखेजाई असंखजाईनो अणंताई इति, अस्य भावना-इह व्यादिसमयस्थितिकानि परमाण्वादिद्रव्याणि लोके यद्यपि प्रत्येकमनन्तानि प्राप्यन्ते तथाऽपि समयत्रयलक्षणायाः स्थितेरेकखरूपत्वात् कालस्य चेह प्राधान्येन द्रव्यबहुत्वस्य गुणीभूतत्वात् त्रि
समयस्थितिकैरनन्तरप्येकमेवानुपूर्वीद्रव्यम्, एवं चतुःसमयलक्षणायाः स्थितेरेकत्वादनन्तरपि चतुःसमयस्थि-15 दातिकद्रव्यरेकमेवानुपूर्वीद्रव्यम्, एवं समयवृद्ध्या तावन्नेयं यावदसङ्ख्येयसमयलक्षणायाः स्थितेरेकत्वादनन्तै
रप्यसख्येयसमयस्थितिकैव्यैरेकमेवानुपूर्वीद्रव्यमिति, एवमसख्येयान्येवात्रानुपूर्वीद्रव्याणि भवन्ति, एव
दीप अनुक्रम [१२६-१३५]
~190~