SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१०१] + गाथा |||| दीप अनुक्रम [११४ -११६] अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः) मूलं [१०१] / गाथा ||१०|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधा रीया ॥ ८६ ॥ रम्भकास्तु प्रदेशा इति, शेषा त्वत्र व्याख्या द्रव्यानुपूर्वीत् कर्तव्येति, नवरं 'सव्वत्थोवाई णेगमववहाराणं अवत्तब्वगदब्वाइ' मित्यादि, अत्राह ननु यदा पूर्वोक्तयुक्त्या एकैको नभः प्रदेशो ऽनेकेषु द्विकसंयोगेषूपयुज्यते तदा अनानुपूर्वीद्रव्येभ्योऽवक्तव्यकद्रव्याणामेव बाहुल्यमवगम्यते, यतः पूर्वोक्तायामपि पञ्चप्रदेशन भः कल्पनायामवक्तव्यकद्रव्याणामेवाष्टसङ्ख्योपेतानां पञ्चसमयेभ्योऽनानुपूर्वीद्रव्येभ्यो बाहुल्यं दृष्टं, तत्कथमत्र व्यत्ययः प्रतिपाद्यते?, सत्यम्, अस्त्येतत् केवलं लोकमध्ये, लोकपर्यन्तवर्तिनिष्कुटगतास्तु ये कण्टकाकृतयो विश्रेण्या निर्गता एकाकिनः प्रदेशास्ते विश्रेणिव्यवस्थितत्वादवक्तव्यकत्वायोग्या इत्यनानुपूर्वीसङ्ख्यायामेवान्तर्भवन्ति, अतो लोकमध्यगतां निष्कुटगतां च प्रस्तुतद्रव्यसङ्ख्यां मीलयित्वा यदा केवली | चिन्तयति तदाऽवक्तव्यकद्रव्याण्येव स्तोकानि, अनानुपूर्वीद्रव्याणि तु तेभ्यो विशेषाधिकतां प्रतिपद्यन्ते, अत्र निष्कुटस्थापना '४४४, अत्र विश्रेणिलिखितौ द्वौ अवक्तव्यायोग्यौ द्रष्टव्याविति, एवम्भूताश्च कि लामी सर्वलोकपर्यन्तेषु बहवः सन्तीत्यनानुपूर्वीणां बाहुल्यमित्यलं विस्तरेण । आनुपूर्वीद्रव्याणां तु तेभ्यो|ऽसङ्ख्यातगुणत्वं भावितमेव, शेषं द्रव्यानुपूर्व्यनुसारेण भावनीयं, नवरमुभयार्थताविचारे आनुपूर्वीद्रव्याणि स्वद्रव्येभ्यः प्रदेशार्थतयाऽसङ्ख्येयगुणानि, कथम् ?, एकैकस्य तावद् द्रव्यस्य त्र्यादिभिरसङ्ख्येयान्तैर्नभःप्रदेशैरारब्धत्वात्, नभः प्रदेशानां च समुदितानामप्यसङ्ख्येयत्वादिति । 'से त'मित्यादि निगमनद्वयम् ॥१०१॥ उक्ता नैगमव्यवहारमतेनानौपनिधिकी क्षेत्रानुपूर्वी, अथ तामेव संग्रहमतेन विभणिपुराह For P&Pase Cnly ~ 175 ~ वृत्तिः उपक्र माधि० ॥ ८६ ॥ by M
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy