SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [७३] दीप अनुक्रम [८३] अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:) मूलं [ ७३] / गाथा || ७... || मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधाया ॥ ५३ ॥ अत्र निर्वचनम् — 'नगमववहाराणं अणोवणिहिआ दव्वाणुपुथ्वी पंचविहेत्यादि, अर्थपदप्ररूपणतादिभिः पञ्चभिः प्रकारैर्विचार्यमाणत्वात् पञ्चविधा-पञ्चप्रकारा प्रज्ञप्ता, तयथा-अर्थपदप्ररूपणता भङ्गसमुत्कीर्तनता भङ्गोपदर्शनता समवतारोऽनुगमः । एभिः पञ्चभिः प्रकारैर्नैगमव्यवहारनयमतेन अनौपनिधिक्याः द्रव्यानुपूर्व्याः स्वरूपं निरूप्यत इतीह तात्पर्यम् । तत्र अर्यत इत्यर्थः व्यणुकस्कन्धादिस्तद्युक्तं तद्विषयं वा पद्मा नुपूर्व्यादिकं तस्य प्ररूपणं-कथनं तद्भावोऽर्थपद्द्मरूपणता, इयमानुपूर्व्यादिका संज्ञा अयं च तदभिधेयरूयणुकादिरर्थः संज्ञीत्येवं संज्ञासंज्ञिसम्बन्धकथनमात्रं प्रथमं कर्तव्यमिति भावार्थः । तेषामेवानुपूर्व्यादिपदानां समुदितानां वक्ष्यमाणन्यायेन सम्भविनो विकल्पा भङ्गा उच्यन्ते, भज्यन्ते विकल्प्यन्ते इतिकृत्वा तेषां समुत्कीर्तनं- समुच्चारणं भङ्गसमुत्कीर्तनं, तद्भावो भङ्गसमुत्कीर्तनता, आनुपूर्व्यादिपदनिष्पन्नानां प्रत्येकभङ्गानां ध्यादिसं| योगभङ्गानां च समुच्चारणमित्यर्थः । तेषामेव सूत्रमात्रतया अनन्तरसमुत्कीर्तितभङ्गानां प्रत्येकं स्वाभिधेयेन व्यणुकाद्यर्थेन सहोपदर्शनं भङ्गोपदर्शनं तद्भावो भङ्गोपदर्शनता । भङ्गसमुत्कीर्तने भङ्गकविषयं सूत्रमेव केवलमुच्चारणीयं, भङ्गोपदर्शने तु तदेव खविषयभूतेनार्थेन सहोचारयितव्यमिति विशेषः । तथा तेषामेवानुपूर्व्यादिद्रव्याणां स्वस्थानपरस्थानान्तर्भावचिन्तनप्रकार: समवतारः । तथा तेषामेव आनुपूर्व्यादिद्रव्याणां सत्पदप्ररूपणादिभिरनुयोगद्वारैरनुगमनं-विचारणमनुगमः ॥ ७३ ॥ तत्राऽऽद्यभेदं विवरीपुराह से किं तं नेगमववहाराणं अट्ठपयपरूवणया १, २ तिपएसिए आणुपुब्वी चउप्पएसिए For P&Pale Cnly ~109~ वृत्तिः उपक्र माधि० ॥ ५३ ॥
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy