________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
............... मूलं [६९] / गाथा ||७...|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६९]
बाद प्रशंसति, ततोऽसौ विलासिनी राजपुत्रादीनामन्यतरत्वेन तं विनिश्चित्य यथोचियेनोपचरति, आनुकल्येनोपचरिताश्च भुजङ्गाः प्रचुरतरमर्थजातं तस्यै प्रयच्छन्तीति । तथैकस्मिन्नगरे कश्चिद्राजा अमात्येन सहाश्ववाहनिकायां निर्गतः, तत्र च पथि गच्छता राजतुरङ्गमेन कुत्रचित् खिलप्रदेशे प्रश्रवणमकारि, तच्च तत्प्रदेशे पृथिव्याः स्थिरत्वेन बद्धच्छिल्लरकं चिरेणाप्य शुष्कं व्यावर्तमानो राजा तथैव व्यवस्थितमद्राक्षीत् , चिरावस्थायिजलं शोभनमत्र प्रदेशे तडागं भवतीति चिन्तयश्चिरमवलोकितवाँश्च, तदिनिताकारपरिज्ञानकुशलतया चामात्येन राज्ञाऽभणितेनापि विदिततदभिप्रायेण खानितं तत्र प्रदेशे महासरः, तत्पाल्यां च रोपिताः सर्वतुकपुष्पफलसमृद्धयो नानाजातीयतरुनिवहाः, अन्यदा च तेनैव प्रदेशेन गच्छता भूपेन दृष्टं, पृष्टं चाहो! मानससरोवद्रमणीयकं केनेदं खानितम् !, अमात्यो जगाद्-भवद्भिरेव, राजा सविस्मयं प्राह-कदा कश्च मयैतत्करणाय निरूपित इति, अतः सचिवो यथावृत्तं सर्वं कथितवान् , अहो! परचित्तोपलक्षकत्वममात्यस्पेति विचिन्त्य परितुष्टो.राजा तस्य वृत्तिं वर्द्धयामासेति ॥ तदेवमित्या (वमा)दिकः संसारफलोऽपरोऽप्यप्रशस्तभावोपक्रमः । अथ प्रशस्तभावोपक्रममाह-'पसत्यो गुरुमाईण ति, तत्र श्रुतादिनिमित्तं गुचोंदीनां यदा-1 वोपक्रमणं स प्रशस्तभावोपक्रमः । आह-नन्वनुयोगदारविचारोऽत्र प्रकान्तः, अनुयोगश्च व्याख्यानम्, ततश्च यदेव तदुपकारि किश्चित् तदेव वक्तव्यं भवति, गुरुभावोपक्रमस्त्वप्रस्तुतो, व्याख्यानानुपकारित्वात्। तदेतद्युक्तं, गुरुभावोपक्रमस्यैव मुख्यव्याख्यानत्वात्, उक्तं च-"गुर्वायत्ता यमाच्छास्त्रारम्भा भवन्ति सर्वे
दीप अनुक्रम ७ि९]
~ 102~