________________
आगम (४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
............... मूलं [१९]/गाथा ||८६-९०|| ..... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
* C
प्रत सूत्रांक
[५९]
RECENESCORROCESC
तेषां यथावस्थितार्थप्रकाशनाभावतोऽनागमत्वाद, आगमशास्त्रस्य ग्रहणं आगमशास्त्रग्रहणं यद् बुद्धिगुणवेक्ष्यमाणैःश्रुतभेदाः कारणभूतैरष्टमिदृष्टं तदेव ग्रहणं श्रुतज्ञानस्य लाभं ब्रुवते पूर्वेषु विशारदा-विपश्चितः धीराः-प्रतपरिपालने स्थिराः, श्रुतलाभः किमुक्तं भवति?-यदेष जिनप्रणीतप्रवचनार्थपरिज्ञानं तदेव परमार्थतः श्रुतज्ञानं, न शेपमिति ॥ बुद्धिगुणैरष्टभि-18 बुद्धिगुण)
अनुयोगश्च रित्युक्तं, ततस्तानेव बुद्धिगुणानाह-'सुस्सूसईत्यादि, पूर्व तावत् शुश्रूषते-विनययुक्तो गुरुवदनारविन्दाद्विनिर्गच्छ-समू.५९ द्वचनं श्रोतुमिच्छति, यत्र शङ्कितं भवति तत्र भूयोऽपि विनयनम्रतया वचसा गुरुमनः प्रहादयन् पृच्छति, पृष्टे च गा.८६-९० सति यद्गुरुः कथयति तत्सम्यक्-व्याक्षेपपरिहारेण सावधानः शृणोति,श्रुत्वा चारूपतया गृह्णाति, गृहीत्वा च ईहतेपूर्वापराविरोधेन पर्यालोचयति, चशब्दः समुच्चयार्थः, अपिशब्दात्प(ब्दःपालोचयन् किञ्चित् खबुद्ध्याऽप्युत्प्रेक्षते इति सूचनार्थः, ततः पर्यालोचनाऽनन्तरमपोहते-एवमेतत् यदादिष्टमाचार्येण नान्यथेत्यवधारयति, ततस्तमर्थे निश्चितं खचेतसि विस्मृत्यभावार्थ सम्यग् धारयति, करोति च सम्यग् यथोक्तमनुष्ठानं, यथोक्तमनुष्ठानमपि श्रुतज्ञानप्राप्तिहेतुः तदावरणक्षयोपशमनिमित्तत्वात् । तदेवं गुणा व्याख्याताः, सम्प्रति यच्छुश्रूषते इत्युक्तं तत्र श्रवणविधिमाह-मूय'मित्यादि, मूकमिति प्रथमतो मूकं शृणुयात् , किमुक्तं भवति ?-प्रथमश्रवणे संयतगात्रस्तूष्णीमासीत, ततो द्वितीये
श्रवणे हुङ्कारं दद्यात् , वन्दनं कुर्यादित्यर्थः, ततस्तृतीये वाढंकारं कुर्यात् , बाढमेवमेतन्नान्यथेति, ततश्चतुर्थे श्रवणे, ४ातु गृहीतपूर्वापरसूत्राभिप्रायो मनाक् प्रतिपृच्छां कुर्यात् , कथमेतदिति ?, पञ्चमे मीमांसां-प्रमाणजिज्ञासां कुर्यादिति ||१३
दीप
अनुक्रम [१५५
-१५७]
HEA
mhimational
~502~