________________
आगम
(४४)
प्रत
सूत्रांक
||२||
दीप
अनुक्रम
[२]
Educat
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः)
मूलं [-]/गाथा ||२||
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
| हारलक्षणः सहानवस्थानलक्षणश्च तत्र परस्परपरिहारलक्षणः तादात्म्यप्रतिषेधे यथा घटपटयोः, न खलु घटः पटात्मको भवति नापि पटो घटात्मकः, 'न सत्ता सदन्तरमुपैती'ति वचनात् ततोऽनयोः परस्परपरिहारलक्षणो विरोधः, एवं सर्वेषामपि वस्तूनां भावनीयम्, अन्यथा वस्तुसाङ्कर्यप्रसक्तेः, यस्तु सहानवस्थानलक्षणो विरोधः स परस्परं बाध्यबाधकभावसिद्धी सिद्ध्यति, नान्यथा, यथा वह्निशीतयोः, तथाहि विवक्षिते प्रदेशे मन्दं मन्दमभिज्वलित| वति वहाँ शीतस्यापि मन्दं मन्दं भावः, यदा पुनरत्यर्थमभिज्वाला विमुञ्चति वहिः तदा सर्वथा शीतस्याभाव इति भवत्यनयोर्विरोधः, उक्तं च- "अविकलकारणमेकं तदपरभावे यदा भवन्न भवेत् । भवति विरोधः स तयोः शीतहुताशात्मनोर्दृष्टः ॥ १ ॥” न चैवं वचनसंवेदनयोः परस्परं वाध्यबाधकभावो न हि संवेदने तारतम्येनोत्कर्षमा| सादयति वचस्थितायाः तारतम्येनापकर्ष उपलभ्यते, तत्कथमनयोः सहानवस्थानलक्षणो विरोधः १, अथ सर्ववेदी वक्ता नोपलब्ध इति विरोध उद्घुष्यते, तदयुक्तम्, अत्यन्तपरोक्षो हि भगवान्, ततः कथमनुपलम्भमात्रेण तस्याभावनिश्वयः ?, अदृश्यविषयस्यानुपलम्भस्याभावनिश्चयकत्वायोगात्, आह च प्रज्ञाकरगुप्तः- “बाध्यबाधकभावः कः, स्यातां यद्युक्तिसंविदौ । ताशोऽनुपलब्धिश्चेदुच्यतां सैव साधनम् ॥ १॥ अनिश्चयकरं प्रोक्तमीदृक्षानुपलम्भनम् । तन्नात्यन्तपरोक्षेषु, सदसत्ताविनिश्चयो ||२||” अथ वचनं विवक्षाधीनं विवक्षा च वक्तुकामता सा च रागो रागादिमतश्च सर्वज्ञत्वाभावो वीतरागस्य सर्वज्ञत्वाभ्युपगमात्, ततः कथमिव वक्तृत्वात् नासर्वज्ञत्वानुमानमिति ?, तदसद्, वक्कुकाम
For Parks Use Only
~46~
१०
१३