________________
आगम
(४४)
प्रत
सूत्रांक
[२७...]
गाथा
||६२
-६५||
दीप
अनुक्रम
[९७
-१००]
श्रीमलय
गिरीया नन्दीवृत्तिः
॥ १५० ॥
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:)
मूलं [२७] / गाथा || ६५ ||
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
******
एव च तस्मै न किश्चिदपि ददाति, नापि वचसाऽपि संस्पृशति मा शेषैरेव परासुर्विधीयेतेति बुद्ध्या, स च किञ्चिदप्यलभमानो मन्युभरवशात् प्रस्थितो देशान्तरं जगाम क्रमेण बेनातटं नगरं, तत्र च क्षीणविभवस्य श्रेष्ठिनो विपण समुपविष्टः तेन च श्रेष्ठिना तस्यामेव रात्री स्पने रत्नाकरो निजदुहितरं परिणयन् दृष्ट आसीत्, तस्य च श्रेणिकपुण्यप्रभावतस्तस्मिन् दिवसे चिरसंचितप्रभूतक्रयाणकविक्रयेण महान् लाभः समुदपादि, म्लेच्छहस्ताच्चानर्थ्याणि म हारतानि खल्पमूल्येन समपद्यन्त ततः सोऽचिन्तयत् - अस्य महात्मनो मम समीपमुपविष्टस्य पुण्यप्रभाव एष यत् मया महती विभूतिरेतावती समासादिता, आकृतिं च तस्यातीव सुमनोहरा मवलोक्य स्वचेतसि कल्पयामास स एष रत्नाकरो यो मया रात्री स्वप्ने दृष्टः, ततस्तेन कृतकराञ्जलीसम्पुटेन विनयपुरस्सरमाभापितः श्रेणिकः कस्य यूयं प्रांधूर्णकाः ?, श्रेणिक उवाच - भवतामिति, ततः स एवंभूतवचनश्रवणतो धाराहतकदम्बपुष्पमिव पुलकित समस्ततनुयष्टिः सबहुमानं स्वगृहं नीतवान् श्रेणिकं भोजनादिकं च सकलमप्यात्मनोऽधिकतरं सम्पादयामास पुण्यप्रभावं च तस्य प्रतिदिवसमात्मनो धनलाभवृद्धिसम्भवेनासाधारणमभिसमीक्षमाणः कतिपयदिनातिक्रमे तस्मै खदुहितरं नन्दानामानं (श्री) दत्तवान् श्रेणिकोऽपि तथा सह पुरन्दर इव पौलोम्या मन्मथमनोरथानापूरयन् पञ्चविधभोगलालसो हूँ ॥ १५०॥ बभूव, कतिपयवासरातिक्रमे च नन्दाया गर्भाधानं वभूव इतश्च प्रसेनजित् खान्तसमयं विभाव्य श्रेणिकस्य परम्परया वार्त्तामधिगम्य तदाकारणाय सत्वरमुवाहनान् पुरुषान् प्रेषयामास ते च समागत्य श्रेणिकं विज्ञसव
२५
Education Internation
For Parts Only
~303~
औत्पत्तिकी बुद्धिदृष्टान्ताः
२०