________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
..................... मूलं [-]/गाथा ||१|| ............. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
शाब्दप्रामाण्य
प्रत
सूत्रांक
||१||
दीप अनुक्रम
श्रीमलय- णासिद्धेः, अत्यन्तवैलक्षण्येन साधायोगात, साधर्म्य चैकीकरणनिमित्तम्, अन्यथाऽतिप्रसङ्गात् , अपि च-कश्चैतागिरीया वेकीकरोतीति वाच्यम्, स एव विकल्प इति चेत्, तद्न, तत्र बाबस्वरूपलक्षणानवभासात्, अन्यथा विकल्पत्वायोदाहातगाद, अनवभासितेन चैकीकरणासम्भयाद्, अतिप्रसक्तेः, अब विकल्पादन्य एव कश्चिद्विकल्प्यमेवार्थ दृश्यमित्यध्यव॥ स्थति, हन्त तर्हि खदर्शनपरित्यागप्रसङ्गः, एवमभ्युपगमे सति बलादात्मास्तित्वप्रसक्तेः तथाहि-निर्विकल्पकं न
विकल्प्यमर्थ साक्षात्करोति, तदगोचरत्वात्, ततो न तत् रश्यमर्थ विकल्पेन सहकीकर्तुमलं, न च देशकालखभावव्यवहितार्थविषयेषु शाब्दविकल्पेषु तद्विषये निर्विकल्पकसम्भवः, तत्कथं तत्र तेन दृश्यविकल्यार्थैकीकरणम्, ततो विकल्पादन्यः सर्वत्र दृश्यविकल्पावर्थावेकीकुर्वन् बलादात्मैवोपपद्यते न च सोऽभ्युपगम्यते, तस्माच्छन्दो वाह्यस्यायस्य वाचक इत्यकामेनापि प्रतिपत्तव्यम्, इतश्च प्रतिपत्तव्यम्, अन्यथा सङ्केतस्यापि कर्जुमशक्यत्वात्, तथाहियेन शब्देन इदं तदित्यादिना सङ्केतो विधेयः तेन किं सङ्केतितेन उतासङ्केतितेन १, न तावत्सङ्केतितेन, अनवस्थाप्रसङ्गात्, तस्यापि हि येन शब्देन सङ्केतः कार्यः तेन किं सङ्केतितेन उतासङ्केतितेनेत्यादि तदेवावर्तते, अथासङ्केतितेन सिद्धः तर्हि शब्दार्थयोस्तियः सम्बन्ध इति । तथा 'जगदानन्दः' इह जगच्छन्देन संज्ञिपञ्चेन्द्रियपरिग्रहः तेषामेव भगवदर्शनदेशनादित आनन्दसम्भवात्, ततश्च जगतां-संक्षिपञ्चेन्द्रियाणाममृतस्पन्दिमूर्तिदर्शनमात्रतो निःश्रेयसाभ्युदयसाधकधर्मोपदेशद्वारेण चानन्दहेतुत्वादैहिकामुष्मिकप्रमोदकारणत्वाजगदानन्दः, अनेन
~ 27~