________________
आगम
(४४)
प्रत
सूत्रांक [२१]
दीप
अनुक्रम
[८७]
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:)
मूलं [२१] / गाथा || ५८... ||
मुनि दीपरत्नसागरेण संकलित....आगमसूत्र [४४], चूलिका सूत्र [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
बुद्धा इति व्युत्पत्तेः तथा च श्रूयते - वाद्यवृषभादिप्रत्ययसापेक्षा करकण्डादीनां बोधिः, बोधिप्रत्ययमपेक्ष्य च बुद्धाः सन्तो नियमतः प्रत्येकमेव विहरन्ति न गच्छ्वासिन इव संहताः, आह च चूर्विंगकृत् -"पत्तेयं वाद्यं वृषभादिकारणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धाः बहिः प्रत्यय प्रतिबुद्धानां च पत्तेषं नियमा विहारो जम्हा तम्हा य ते पत्तेयबुद्धा" इति, तथा स्वयम्बुद्धानामुपधिर्द्वादशविध एव पात्रादिकः, प्रत्येकबुद्धानां तु द्विधा- जवन्यत उत्कर्षतश्च तत्र जघन्यतो द्विविधः उत्कर्षतो नवविधः प्रावरणवर्जः, आह च चूर्विणकृत् -"पत्तेयबुद्धाणं जहन्त्रेणं दुविहो उकोसेण नवविहो नियमा पाउरणवज्जो भवद ।” तथा स्वयम्बुद्धानां पूर्वाधीतं श्रुतं भवति वा न वा, यदि भवति ततो लिङ्गं देवता वा प्रयच्छति गुरुसन्निधौ वा गत्वा प्रतिपद्यते, यदि चैकाकी विहरणसमर्थ इच्छा च तस्य तथारूपा जायते तत एकाकी विहरत्यन्यथा गच्छवासेऽवतिष्ठते, अब पूर्वाधीतं श्रुतं न भवति तर्हि नियमाद्गुरुसंनिधौ गत्वा लिङ्गं प्रतिपद्यते, गच्छं चावश्यं न मुञ्चति, उक्तं च चूर्णिकृता - (ग्रन्थानं ४००० ) “वाधीनं से सुबं हवद या न वा, जइ से नत्थि तो लिंग नियमा गुरुसन्निहे पडिवज्जइ, गच्छे य विहरइत्ति, अहवा पुत्राधीतयसंभवो अत्थि तो से लिंगं देवया पयच्छइ गुरुसन्निधे वा पडिवज्जद, जइ य एगविहारविहरणजोगो इच्छा च से तो एको चैव बिहरइ, अन्नहा गच्छे विहरद"त्ति । प्रत्येकबुद्धानां तु पूर्वाधीतं श्रुतं नियमतो भवति, तब जघन्यत एकादशाङ्गानि
१ प्रश्येकं नियमाद्विहारो यस्मात् तस्माच्च ते प्रत्येकबुद्धाः २ प्रत्येकान जपत्येन द्विविध उत्कृष्टेन नवविधः प्रावरणव नियमात् भवति । ३ संस्कृत में ।
For Paren
~264~
स्वयंप्रत्येकबुद्धाः