SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) .................. मूलं [२०]/गाथा ||५८...|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: अनन्तर प्रत सूत्रांक [२०] मज्झे अट्ठ' इति, उत्कृष्टद्वारे येषा सम्यक्त्वपरिभ्रष्टानामनन्तः कालोऽगमत् तेषामष्टशतं, सङ्ख्यातकालपतितानामसायातकालपतितानां च दशक २, अप्रतिपतितसम्यक्त्वानां चतुष्टयं, उक्तं च-"जेसिं अणंतकालो पडिवाओ| सिद्धकेवलतेसिं होइ असयं । अप्पडिबडिए चउरो दसगं दसगं च सेसाणं ॥१॥" अन्तरद्वारे एको वा सान्तरतः सिध्यति । ज्ञानम् बहवो बा, तत्र बहवो यावदष्टशतं । अनुसमयद्वारे-प्रतिसमयमेको वा सिध्यति बहवो वा, तत्र बहूनां सिध्यतामियं प्ररूपणा-एकादयो द्वात्रिंशत्पर्यन्ता निरन्तरमुत्कर्षतोऽष्टौ समयान् यावत् प्राप्यन्ते, इयमत्र भावना-प्रथमसमये जघन्यत एको द्वौ या उत्कर्षतो द्वात्रिंशत् सिध्यन्तः प्राप्यन्ते, द्वितीयसमये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशद एवं तृतीयसमयेऽपि, एवं चतुर्थसमयेऽपि, एवं यावदष्टमेऽपि समये जघन्यत एको द्वौ वा उत्कर्पतो द्वा-14 मात्रिंशत्ततः परमवश्यमन्तरं । तथा त्रयस्त्रिंशदादयोऽष्टचत्वारिंशत्पर्यन्ता निरन्तरं सिध्यन्तः, सप्त समयान् यावत्प्रा प्यन्ते, भावना प्राग्वत्, परतो नियमादन्तरं, तथा एकोनपञ्चाशदादयः षष्टिपर्यन्ता निरन्तरं सिध्यन्तः उत्कर्षतः षट् समयान् यावदवाप्यन्ते, परतोऽवश्यमन्तरं, तथा एकषष्ट्यादयो द्विसप्ततिपर्यन्ता निरन्तरमुत्कर्षतः सिध्यन्तः उत्कर्षतः पञ्च समयान् यावत्प्राप्यन्ते, ततः परमन्तरं, तथा त्रिससत्यादयश्चतुरशीतिपर्यन्ता निरन्तरं सिध्यन्तः उकर्षतश्चतुरस्समयान् यावत्प्राप्यन्ते, तत ऊर्द्धमन्तरं, तथा पञ्चाशीत्यादयः षण्णवतिपर्यन्ता निरन्तरं सिध्यन्तः उत्क१ येषामनन्तः कालः प्रतिपाते तेषां भवत्वष्टशतम् । अप्रतिपतिद्वे चत्वारो दशकं दशकं च शेषाणाम् ॥ १ ॥ दीप अनुक्रम [८६] SAREEWemanand ~ 242~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy