________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
................ मूलं [-]/गाथा ||१|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
जीवसत्तासिद्धिः
चाबोक
खंडनच.
प्रत सूत्रांक ||१||
दीप अनुक्रम
श्रीमलय- तत्र न तावदाधः पक्षः, इन्द्रियरूपात् तदुत्पत्ताविन्द्रियबुद्धिबद् वर्तमानार्थग्रहणप्रसक्तः, इन्द्रियं हि वार्तमानिक गिरीयाएवार्थे व्याप्रियते ततस्तत्सामर्थ्यादुपजायमानं मानसमपि ज्ञानमिन्द्रियज्ञानमिव वर्तमानार्थग्रहणपर्यवसितसत्ताकनन्दाबातमेव भवेत् , अथ यदा चक्षु रूपविषये व्याप्रियते तदा रूपविज्ञानमुत्पादयति न शेषकालं, ततः तद्रूपविज्ञानं
वर्तमानार्थविषय, वर्तमाने एवार्थे चक्षुषो व्यापारात, रूपविषयव्यावृत्त्यभावे च मनोज्ञानं, ततो न तत्प्रतिनियतकालविषयं, एवं शेषेष्वपीन्द्रियेषु वाच्यं, ततः कथमिव मनोज्ञानस्य वर्तमानार्थग्रहणप्रसक्तिः, तदसाधीयो, यत इन्द्रियाश्रितं तदुच्यते यदिन्द्रियब्यापारमनुसृत्योपजायते, इन्द्रियाणां च व्यापारः प्रतिनियत एव वातैमानिके खखविषये, ततो मनोज्ञानमपि यदिन्द्रियव्यापाराश्रितं तत ऐन्द्रियज्ञानमिव वार्तमानिकार्थग्राहकमेव भवेद्, अन्यथा इन्द्रियाश्रितमेव तद् न स्यात्, उक्तं च-"अक्षव्यापारमाश्रित्य, भवदक्षजमिष्यते । तद्यापारो न तत्रेति, कथमक्षभवं भवेत् ? ॥१॥" अथानिन्द्रियरूपादिति पक्षः, तदप्ययुक्तं, तस्याचेतनत्वात् , नन्वचेतनत्वादिति कोऽर्थः, यदि इन्द्रियविज्ञानविरहादिति तदिष्यत एव, यदि नामेन्द्रियविज्ञानं ततो न भवति मनोज्ञानं तु कस्मात् न भवति ?, अथ मनोविज्ञानं नोत्पादयतीति अचेतनत्वं, तदा तदेव विचार्यमाणं इति प्रतिज्ञार्थंकदेशासिद्धो हेतुः, तदप्यसत्, अचेतनत्वादिति किमुक्तं भवति ?-खनिमित्तविज्ञानैः स्फुरच्चिद्रूपतयाऽनुपलब्धेः, स्पर्शादयो हि खस्खनिमित्तवि-14 ज्ञानैः स्फुरचिद्रूपा उपलभ्यन्ते ततस्तेभ्यो ज्ञानमुत्पद्यते इति युक्तम्, केशनखादयस्तु न मनोज्ञानेन तथा स्फुरचि
VI
SAREaratunniafraternal
Pranaamsamucom
~ 13~