________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) .................................. मूल -1/गाथा ||४४|| ............. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
योप
सूत्रांक
ACADSAUCAR
||४४||
|मभाषिष्ट-समागच्छत २ खागतं युष्माकम् , अहो कृतकल्याणा वयं यदतर्कितोपनीतकाञ्चनवृष्टिरिव युष्मदर्शन र मकाण्ड एव मन्मनोमोदाधायि संवृत्तमिति, तत एवमुक्त भ्रष्टप्रतिज़मात्मानमवबुध्य लजावनतकन्धराशिरोनयनः पुष्करावर्तों यत्किञ्चिदाभाष्य खस्थानं गतः, एष दृष्टान्तः, उपनयस्त्वयम्कोऽपि शिष्यो मुद्गशैलसमानधर्मा निरन्तरं यत्नतः पाठयमानोऽपि पदमप्येकं भावतो नावगाहते, ततोऽयोग्योऽयमितिकृत्वा खाचार्यैरुपेक्षितः, तं च तथोपेक्षितमवबुध्य कोऽप्यन्य आचार्योऽभिनवतरुणिमावेगवशोज्जृम्भितमहावलपराक्रमः अत एवागणितव्याख्याविधिपरिश्रमो यौवनिकमदवशतोऽपरिभावितगुणागुणविवेको वक्तुमेवं प्रवृत्तो-यथैनमहं पाठयिष्यामि, पठति च लोकानां पुरतः सुभाषितम्-"आचार्यस्खैव तजाड्यं, यच्छिष्यो नावबुध्यते । गावो गोपालकेनेव, कुतीर्थेनावतारिताः॥१॥" ततः तं सर्वादरेण पाठयितुं लग्नः, स च मुद्गशैल इव दृढप्रतिज्ञो न भावतः पदमप्येकं खचेतसि परिणमयति, ततः खिन्नशक्तिराचार्यों भ्रष्टप्रतिज्ञमात्मानं जानानो लजितो यत्किमप्युत्तरं कृत्वा तत्स्थानादपसृत्य गतः, ततः एवंविधाय नेदमध्ययनं दातव्यम् , यतो न खलु बन्ध्या गौः शिरःशृङ्गबदनपृष्ठपुच्छोदरादौ सस्नेहं स्पृष्टाऽपि सती दुग्ध-18 प्रदायिनी भवति, तथाखाभाव्याद्, एवमेपोऽपि सम्यक् पाठ्यमानोऽपि पदमप्येकं नावगाहते, ततो न तस्य तायदुपकारः, आस्तां तस्योपकाराभावः प्रत्युत आचार्ये सूत्रे चापकीर्तिरुपजायते, यथा न सम्यकौशलमाचार्यस्य व्याख्यायामिदं वाऽध्ययनं न समीचीनं, कथमयमन्यथा नावबुध्यते इति ?, अपि च-तथाविधकुशिष्यपाठने तस्या
दीप अनुक्रम [४६]]
१३
SARETRImatana
~114~