________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२३],
मूलं [-]/ गाथा ||२-४|| नियुक्ति: [४५१...]
(४३)
उत्तराध्य
वृहद्वत्तिः
॥४९८॥
प्रत सूत्रांक ||२-४||
जुसंस्थानतयैव तेन व्यवस्थापनात् , मुक्त्यवस्थाऽपेक्षया का, पठ्यते च-'अरिहा लोयविस्सुए। सचन्नू सपदंसी य, | केशीगीतधम्मतित्थस्स देसए ।' स्पष्टमेवेति सूत्रार्थः ॥ ततः किमित्याह
मीयाध्य. तस्स लोगपईवस्स, आसि सीसे महायसे । केसी कुमारसमणे, विजाचरणपारगे ॥२॥ ओहिनाणसुए बुद्धे, सीससंघसमाउले । गामाणुगाम रीयंते, सेऽवि सावत्थिमागए ॥३॥ तिंदुयं नाम उजाणं, तंमि नयरमंडले । फासुएसिजसंधारे, तत्थ वासमुवागए ॥ ४॥
'तस्य' इति पार्थनानोऽहतो लोके प्रदीप इव प्रदीपस्तद्गतसकलवस्तुप्रकाशकतया लोकप्रदीपस्तस्यासीच्छिष्यो| महायशाः 'केशिः' केशिनामा कुमारश्चासावपरिणीततया श्रमणश्च तपखितया कुमारश्रमणो विद्याचरणे-ज्ञानचारित्रे तयोः पारगः-पर्यन्तगामी विद्याचरणपारगः, 'ओहिनाणसुए'त्ति सुव्यत्ययादवधिज्ञानश्रुताभ्यां "मइपुछ जेण सुयं”| इत्यागमात्मतिपूर्वकतया श्रुतस्य मत्या च 'बुद्धः' अवगतहेयोपादेयविभागो विशेषाभिधायित्वादस्थापुनरुक्तता, शिष्याणां सङ्का-समूहस्तेन समाकुल:-आकीर्णः परिहित इतियावत् शिष्यसङ्घसमाकुलो ग्रामानुग्रामं पूर्ववत् 'रीयंते'त्ति 'रीयमाणः' विहरन् 'श्रावस्ती' श्रावस्तीनाम्नी, 'तम्मिति तस्याः श्रावस्त्याः 'नगरमण्डले' पुरपरिक्षेपपरिसरे 'प्रासुके। खाभाविकागन्तुकसत्वरहिते, केत्याह-शय्या-वसतिस्तस्यां संस्तारका-शिलाफलकादिः शय्यासंस्तारकस्तस्मिन् 'तत्रे'-* |ति तिन्दुकोद्याने वासम्-अवस्थानम् 'उपागतः प्राप्तः, शेषं स्पष्टमिति सूत्रत्रयार्थः ॥ अस्मिंश्चान्तरे यदभूतदाह
दीप अनुक्रम [८४८-८५०]
For PAHATEEPIVanupontv
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~995~