________________
आगम
(४३)
प्रत
||||
दीप
अनुक्रम [८४७]
Jgn Educa
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः) मूलं [ - ] / गाथा ||१||
अध्ययनं [२३],
निर्युक्ति: [४५१]
गाथात्रयं प्राग्बन्नवरं गौतमाभिलाप एव विशेषः, 'एवमेव' उक्तप्रकारेणैव 'केशेरपि' केशिशब्दस्यापि निशेप (:) चतुपकको भवति, ज्ञातव्य इति शेषः, गाथात्रयार्थः ॥ नामान्वर्थमाह
गोअम केसीओ आ संवायसमुट्टियं तु जम्हेयं । तो केसिगोयमिजं अज्झयणं होइ नाय ॥ ४५१ ॥ गौतमात् केशिनश्च संवादः - परस्पर भाषणं वचनैक्यं वा यतस्तयोस्तात्पर्यत एकार्थाभिधायितयै(ते) त्र ततः संवा-| दात्समुत्थितम् - उत्पन्नं संवादसमुत्थितम्, अनेन भावार्थ उक्तः, तुः अवधारणे, ततो गौतमात्केशिनश्च संवादसमुस्थितमेव यस्मादेतत्-प्रस्तुतं ततः केशिगीतमयोर्भवमित्यर्थे 'नामधेयेन नामधेयत्वेऽस्ये' ति वृद्धसज्ञत्वात्, 'वृद्धाच्छः' (पा०.४-२११४) इति प्रत्यये केशिगौतमीयमध्ययनं 'भवति' ज्ञातव्यमिति गाथार्थः ॥ उक्तो नाम निष्पन्ननिक्षेपः, इदानीं सूत्रालापक निष्पन्न निक्षेपावसरः, स च सूत्रे सति भवतीति सूत्रानुगमे सूत्रमुच्चारणीयं तचेदम्
जिणे पासिति नामे, अरहा लोगपूइए। संबुद्धप्पा य सन्वन्नु, धम्मतित्थयरे जिणे ॥ १ ॥ 'जिनः' परीपहोपसर्गजेता पार्श्व इति नाम्नाऽभूदिति शेषः, स चान्योऽपि संभवत्यत आह- अर्हति देवेन्द्रादिवि| हितानि वन्दननमस्करणादीन्यर्हन् तीर्थकृदित्यर्थः, अत एव लोकपूजितः संबुद्धः — तत्त्वावगमवानात्माऽस्येति संबुद्धात्मा, 'चः पूरणे, स चानुत्पन्न केवलोऽपि स्यादित्याह - 'सर्वज्ञः' सकलद्रव्यपर्यायवित्, तथा धर्म एव तीर्यते भवासम्भोधिरनेनेति तीर्थं धर्मतीर्थं तत्करणशीलो धर्मतीर्थकरू 'जिनः' जितसकलकर्मा, भवोपग्राहि कर्मणामपि दग्धर
For PP Use On
ancibrary urg
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३], मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
~994~