________________
आगम
(४३)
प्रत
सूत्रांक
॥२-१०॥
दीप
अनुक्रम [७७४
-७८२]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [ - ] / गाथा ||२-१०||
अध्ययनं [२१],
Education intimatin
| व्यवहरते तद्गुणाकृष्टचेताः कश्चिद्वाणिजो 'ददाति' यच्छति 'धूयरं 'ति दुहितरम्, उदूढवांश्च तामसी, स्थित्वा च तत्र कियन्तमपि कालं तां 'ससत्त्वा' मित्यापन्नसत्त्वां 'परिगृ' आदाय वदेशम् 'अथ' अनन्तरं 'प्रस्थितः' चलितः । तत्र चागच्छतोऽथ पालितस्य गृहिणी 'समुद्र' जलधौ 'प्रसूते' गर्भं विमुञ्चति स्पेति शेषः, 'अथेत्युपन्यासे 'दारकः' सुतः 'तस्मिन्' इति प्रसवने 'जातः' उत्पन्नः समुद्रपाल इति 'नामतो' नामाश्रित्य । क्रमेण चागच्छन् 'क्षेमेण' कुशलेनागतवम्पायां श्रावको बाणिजः 'घरं'ति चस्य गम्यमानत्वाद गृहं च स्वकीयं कृतं च तत्र वर्द्धापनकादि, संवर्द्धते च 'गृहे' वेश्मनि, 'तस्य' इति पालिताभिधानवणिजो दारकः सः 'सुखोचितः' सुकुमारः । एवं च प्राप्तः कलाग्रहण| योग्यतां द्विसप्ततिकलाच शिक्षितः, शिक्षते वा पाठान्तरतः, जातश्च 'नीतिकोविदः' न्यायाभिज्ञः, 'जोबणेण य अप्फुण्णे' त्ति, चस्य भिन्नक्रमत्वाद्यौवनेन 'आपूर्णश्च' परिपूर्णशरीरश्च, पठ्यते च -- ' जोवणेण य संपण्णेति, तत्र च 'संपन्नः' युक्तोऽत एव 'सुरूपः सुसंस्थानः 'प्रियदर्शनः सर्वस्यैवानन्ददाता । परिणयनयोग्यतां च तस्य विज्ञाय 'रूपवती' विशिष्टाकृतिं भार्या' पत्नी 'पिता' पालितवणिग् 'आनयति' तथाविधकुलादागमयति 'रूपिणीं' रूपिणीनाम्नीं, परिणायितश्च तामसी, प्रासादे क्रीडति-रमंति तथा सह 'रम्ये' अभिरतिहेती देवो दोगुन्दको यथा । अथान्यदा कदाचित् 'प्रासादालोकने' उक्तरूपे स्थितः सन् वधमर्हति वध्यस्तस्य मण्डनानि - रक्तचन्दनकरवीरादीनि तैः | शोभा - तत्कालोचितपरभागलक्षणा यस्यासौ वध्यमण्डनशोभाकस्तं 'वध्यं' बधाई कञ्चन तथाविधाकार्यकारिणं
For PP Use On
निर्युक्ति: [४२४,,,]
~964~
www.janciran
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः