________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२०], मूलं [-] / गाथा ||३८-५०|| नियुक्ति: [४२२R...]
(४३)
प्रत
उत्तराध्य- बृहद्वृत्तिः ॥४७॥
सूत्रांक
||३८-५०||
यतश्चैवं दुचरितैरेव दुर्गतिप्रातिरतः 'न' व 'तम्' इति प्रस्तावादन] 'कण्ठछेचा' प्राणहर्ता 'से' तस्य 'दुरप्प'
तिमहानिर्गप्राकृतत्वात् 'दुरात्मता' दुष्टाचारप्रवृत्तिरूपा, न चैनामाचरन्नपि जन्तुरत्यन्तमूढतया वेत्ति, ततः किमुत्तरकालमपि ना वेत्स्यतीत्याह-'स' दुरात्मताकर्ता ज्ञास्यति प्रक्रमाद् दुरात्मतां 'मृत्युमुखं तु' मरणसमयं पुनः प्राप्तः पश्चादनुता-16 पेन-हा दुष्ठु मयाऽनुष्ठितमित्येवंरूपेण, दया-संयमः सत्याधुपलक्षणमहिंसा वा तद्विहीनः सन् , मरणसमये हि प्रायोऽतिमन्दधर्मस्यापि धर्माभिप्रायोत्पतिरित्येवमभिधानं, यतश्चैवं महाऽनर्थहेतुः पश्चात्तापहेतुश्च दुरात्मता तत आदित एव मूढतामपहाय परिहर्त्तव्येयमिति भावः॥ यस्तु मृत्युमुखप्राप्तोऽपि न तां वेत्स्यति तस्य का वार्तेत्याह'णिरहिए' इत्यादि, निरर्थिका तुशब्दस्वकारार्थस्येह सम्बन्धात् 'निरर्थकैव' निष्फलैव नाम्ये-श्रामण्ये रुचिः-11 इच्छा नाग्यरुचिस्तस्य 'जे उत्तमति सुव्यत्ययादपेश्च गम्यमानत्वाद् 'उत्तमार्थेऽपि' पर्यन्तसमयाराधनारूपेऽपि आस्तां पूर्वमित्यपिशब्दार्थः 'विपर्यासं' दुरात्मतायामपि सुन्दरात्मतापरिज्ञानरूपम् 'एति' गच्छति, इतरस्य तु कथञ्चित्स्यादपि किञ्चित्फलमिति भावः, किमेवमुच्यते ?, यतः 'इमेवित्ति अयमपि प्रत्यक्षो लोक इति सम्बन्धः, 'से' इति तस्य । 'नास्ति' न विद्यते, न केवलमयमेव परोऽपि लोको-जन्मान्तरलक्षणः, तत्रेहलोकाभावः शरीरक्लेशहेतुलोचादिसेवनात् । परलोकाभावश्च कुगतिगमनतः शारीरमानसदुःखसम्भवात् ,तथा च दुहतोऽवित्ति द्विधाऽपि ऐहिकपारत्रिकार्थाभावेन 'स झिज्झई' त्ति, स ऐहिकपारत्रिकार्यसम्पत्तिमतो जनान् विलोक्य धिग् मामपुण्यभाजनमुभयभ्रष्टतयेति चिन्तया
दीप अनुक्रम [७५०-७६२]
For PAHATEEPIVanupontv
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~957~