________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२०],
मूलं [-] / गाथा ||१६-३५|| नियुक्ति: [४२२R...]
(४३)
2-%
प्रत
सूत्रांक
4
||१६-३५||
36-4-50
ततः पुत्रशोकदुःखार्ता पुत्रशोकदुःखार्दिता वा ॥ तथा 'सग'त्ति लोकरूढितः सौदर्याः खका वा-आत्मीया वा तथा 'भइणि'त्ति भगिन्यः ॥ अपरं च 'भार्यो' पत्नी 'अनुरक्ता' अनुरागवती 'अणुवय'त्ति अन्विति-कुलानुरूपं प्रतम्-आचारोऽस्या अनुनता पतिव्रतेति यावत्, वयोऽनुरूपा वा, पठ्यते च-'अणुत्तरमणुष्वय'त्ति, इह च मकारोऽलाक्षणिकः, अनुत्तरा-अतिप्रधाना 'उर'न्ति 'उरः' बक्षः 'परिषिञ्चति' समन्तात्प्लावयति ॥ स्त्रात्यनेनेति स्नान-गन्धोदकादि मया ज्ञातमज्ञातं चेत्यनेन सद्भावसारतामाह, पठ्यते च-'तारिसं रोगमावण्णे त्ति, 'तादृशम्' उक्तरूपं 'रोगम्' अक्षिरोगादिकम् 'आपन्ने' प्राप्ते मयीति गम्यते, सेति-भार्या बालेव बाला-अभिनवयौवना 'नोपभुले' नासेवते ॥ 'पासाओऽषि ण फिट्टईत्ति, अपिः चशब्दार्थः, मत्पार्थाच नापयाति, सदा सन्निहितैवास्ते, अनेन तस्या अतिवत्सलत्वमाह ॥'ततः' इति रोगाप्रतिकार्यतानन्तरमहम् 'एवं' वक्ष्यमाणप्रकारेण 'आइंसुति उक्तवान् , यथा 'दुक्खमा हुति, हु एवकारार्थ, ततो दुःक्षमैव-दुःसहैव पुनः पुनः 'वेदना' उक्तस्वरूपा रोगव्यथा 'अनुभवितुं' वेदयितुं जे इति निपातः पूरणे ॥ यतश्चैवमतः 'सयं च'त्ति चशब्दोऽपिशब्दार्थस्ततः सकृदपि-एकदाऽपि यदि मुच्येऽहमिति गम्यते, कुतः ?-'वेयण'त्ति वेदनायाः 'विउल'त्ति विपुलाया:-विस्तीर्णायाः 'इतः' इत्यनुभूयमानायाः, ततः किमित्याह-क्षान्तः' क्षमावान् 'दान्तः' इन्द्रियनोइन्द्रियदमेन 'पवइए अणगारिय'त्ति, 'प्रव्रजेयं' गृहान्निष्कामेयं ततश्च 'अनगारता" भावभिक्षुतामङ्गीकुर्यामिति शेषः,यद्वा 'प्रव्रजेयं' प्रतिपद्येयमनगारितां येन संसा
-
दीप अनुक्रम [७२८-७४७]]
AIMEducatan indaimational
For
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 950~