________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२०],
मूलं [-1 / गाथा ||२-८|| नियुक्ति: [४२२R...]
(४३)
SC- 5
प्रत
सूत्रांक
||२-८||
5++KC
च 'अहो ?” इत्याश्चर्ये 'वर्णः' सुनिग्धो गौरतादिः 'रूपम् आकारः 'सौम्यता' चन्द्रस्येव द्रष्टुरानन्ददायिता 'असकता निःस्पृहता, पादवन्दनानन्तरं प्रदक्षिणाऽभिधानं पूज्यानामालोक एवं प्रणामः क्रियत इति ख्यापनार्थ, तथा चागमः-"आलोए जिणपडिमाणं पणामं करेति"त्ति । 'प्रतिपृच्छति' प्रश्नयति, तरुणेत्यादिना प्रश्नखरूपमुक्तम् , इह च यत एव तरुणोऽत एव प्रत्रजितो भोगकाल इत्युच्यते, तारुण्यस्य भोगकालत्वात् , यद्वा तारुण्येऽपि रोगादिपीडायां न भोगकालः स्यादित्येवमभिधानं, सोऽपि कदाचित्संयमेऽनुद्यत एव स्यात् त्वं पुनरुपस्थितश्च-कृतोद्यमश्च श्रामण्ये, पठन्ति च 'उवहितोऽसि चि, एनम् 'अध'निमित्तं येनार्थेन त्वमीश्यामप्यवस्थायां प्रत्रजितः शृणोमि 'ता' इति तावत्, पश्चात्तु यत्त्वं भणिष्यसि तदपि श्रोष्यामीति भाव इति श्लोकसप्तकार्थः । इत्थं राज्ञोक्ते मुनिराह___अणाहो मि महाराय!, नाहो मज्झ न विजई । अणुकंपयं सुहिं वावि, कंची नाहि तुमे महं ॥९॥ |
'अनाथः' अखामिकोऽस्मीत्यहं 'महाराज!' प्रशस्यनृपते !, किमित्येवं ? यतो 'नाथः' योगक्षेमविधाता मम न विद्यते, तथा 'अणुकंपगं'ति आपत्वादनुकम्पको यो मामनुकम्पते, 'सुर्हिति तत एव सुहृद् 'यायि'ति प्राग्वदेव
'कंचित्ति कश्चिन्न विद्यते, ममेति सम्बन्धः, 'नाहिति प्रक्रमादनन्तरोक्तमर्थ जानीहि 'तुमि'त्ति त्वं, पठ्यते च-18 द'कंची नाभिसमेमहं' कश्चिदनुकम्पकं सुहृदं वाऽपि 'नाभिसमेमि' नाभिसंगच्छामि, न केनचिदनुकम्पेन सुहृदा वा
सङ्गतोऽहमित्यादिनाऽर्थेन तारुण्येऽपि प्रबजित इति भाव इति सूत्रार्थः ॥ एवं च मुनिनोक्ते
दीप अनुक्रम
[७१४
-७२०]
AIMEducatan intimational
For Fun
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~944~