________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१९], __ मूलं [-]/ गाथा ||११-१३|| नियुक्ति: [४१४...]
(४३)
प्रत
सूत्रांक
||११
-१३||
वस्थितत्वेऽप्यनित्य आवासः-प्रक्रमाजीवस्यावस्थानं यस्मिन्नित्यशाश्वतावासं, पुनः इदमित्यभिधानमतीवासार-2 त्वावेशसूचकं, दुःखम्-असातं तद्धेतवः क्लेशाः-ज्वरादयो रोगा दुःखक्लेशाः शाकपार्थिवादिवत्समासस्तेषां 'भाजनं' स्थानं, यतश्चैवमतोऽशाश्वते शरीरे 'रति' चित्तखास्थ्यं 'नोपलभे' न प्राप्नोम्यहं, भोगेषु सत्वपीति गम्यते, शरीराश्रयत्वात्तेषामिति भावः, शरीराशाश्वतत्वमेवाह-पश्चात्पुरा वा त्यक्तव्ये शरीरे इति प्रक्रमः, तद्धि पश्चादिति भुक्त| भोगावस्थायां वार्द्धक्यादौ, पुरा अभुक्तभोगितायां वा बाल्यादौ त्यज्यत इति, यद्वा पश्चादिति-यथास्थित्यायुःक्षयोत्तरकालं पुरा वेत्युपक्रमहेतोर्वषेशताद्यासंकलितजीवितप्रमाणात्प्रागपि 'त्यक्तव्ये' अवश्यत्याज्ये 'फेनबुद्धदसंनिभे क्षणदृष्टनष्टतया, अनेनाशाश्वतत्वमेव भावितमिति न पौनरुक्त्यमिति सूत्रत्रयाः ॥ एवं भोगनिमन्त्रणपरिहारमभिधाय प्रस्तुतस्यैव संसारनिर्वेदस्य हेतुमाह| माणुसत्ते असारंमि, वाहीरोगाण आलए । जरामरणपत्थंमि, खणपि न रमामहं ॥१४॥ जम्म दुक्खं जरा दुक्खं, रोगा य मरणाणि य । अहो दुक्खो हु संसारो, जत्थ कीसंति जंतुणो ॥१५॥ खित्तं वत्थु हिरण्णं
च, पुत्सदारं च बंधवा । चइता ण इमं देहं, गंतब्बमवसस्स मे ॥१६॥ जह किंपागफलाणं, परिणामो ४ान सुंदरो । एवं भुत्ताण भोगाणं, परिणामो न सुंदरो॥१७॥
सूत्रचतुष्टयं स्पष्टं, नवरं व्याधयः-अतीव बाधाहेतवः कुष्ठादयो रोगाः-ज्वरादयस्तेषाम् 'आलये' आश्रये 'जरा-2
E3%************
दीप अनुक्रम [६२५६२७]]
For
F
un
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~906~