________________
आगम
(४३)
प्रत
सूत्रांक
||३४
-५०||
दीप
अनुक्रम
[५९३
-६१०]
Jan Educatio
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [ - ] / गाथा ||३४-५०||
अध्ययनं [१८],
दीनानाथादिदानोत्थया प्रसिद्धयोपलक्षितः सन् यद्वा अनार्त्ता-सकलदोषविगमतोऽवाधिता कीर्त्तिरस्येयनार्त्तकीर्त्तिः सन् पठ्यते च 'आणट्टा किइपञ्चद्द'त्ति, आज्ञा-आगमोऽर्थशब्दस्य हेतुवचनस्यापि दर्शनादर्थो — हेतुरस्याः सा तथाविधा आकृतिरर्थान्मुनिवेषात्मिका यत्र तदाज्ञार्थीकृति यथा भवत्येवं प्रात्राजीगुणैः- राज्यगुणैः शब्दादिभिर्वा समृद्धं संपन्नं गुणसमृद्धं, पूर्वत्र तुशब्दस्यापिशब्दार्थत्वायवहितसम्बन्धत्वाच्च गुणसमृद्धमपि । तथा 'अहाय'त्ति आर्षत्वाद् 'आदित' गृहीतवांस्तद्गमनेन स्वीकृतवान् शिरसेव शिरसा शिरः प्रदानेनेव जीवितनिरपेक्षमिति योऽर्थः, 'शिरं'ति शिर इव शिरः सर्वजगदुपरिवर्त्तितया मोक्षः, पठ्यते च - 'आदाय सिरसो सिरिंति, अत्र च 'आदाय' गृहीत्वा 'शिरः श्रियं' सर्वोत्तमां केवललक्ष्मीं परिनिर्वृत इति शेषः, इति सप्तदशसूत्रार्थः ॥ इत्थं महापुरुषो दाहरणैर्ज्ञानपूर्वकक्रियामाहात्म्यमभिधायोपदेष्टुमाह
निर्युक्तिः [४०३...]
कहं धीरो अहेऊहिं, उम्मत्तो व्व महिं चरे । एए विसेसमादाय, सूरा दढपरकमा ॥ ५१ ॥
'कथं केन प्रकारेण 'धीरः' उक्तरूपः 'अहेतुभिः' क्रियावाद्यादिपरिकल्पितकुहेतुभिः 'उन्मत्त इव' ग्रहगृहीत इव तात्त्विक वस्त्वपलपनेनालजालभाषितया 'महीं' पृथ्वी 'चरेत्' भ्रमेत् ? नैव चरेदित्यर्थः किमिति ?, ये 'एते' अनन्तरोदिता भरतादयः 'विशेष' विशिष्टतां गम्यमानत्वान्मिथ्यादर्शनेभ्यो जिनशासनस्य 'आदाय' गृहीत्वा मनसि संप्रधार्येतियावत् शूरा दृढपराक्रमा एतदेवाश्रितवन्त इति शेषः, अयमभिप्रायः यथैते महात्मानो विशेषमादाय
For Para Prata Use Only
~896~
jancibrary urg
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः