SearchBrowseAboutContactDonate
Page Preview
Page 885
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१८], मूलं [-1 / गाथा ||२२|| नियुक्ति : [४०३...] (४३) प्रत सूत्रांक ||२२|| यथा च तदुपदेशस्तथा गुरून् प्रतिचरामि, तदुपदेशासेवनाच विनीत इति सूत्रार्थः ॥ इत्थं विमृश्य तद्गुणबहुमानाकृष्टचेता अपृष्टोऽपि क्षत्रिय इदमाह किरियं अकिरिअं विणयं, अन्नाणं च महामुणी !। एएहिं चरहिं ठाणेहिं, मेअन्ने किं पभासई ? ॥२३॥ 'क्रिया' अस्तीत्येवंरूपा, लिङ्गव्यत्ययान्नपुंसकनिर्देशः, 'अक्रिया' तद्विपरीता 'बिनयः' नमस्कारकरणादिः, लिङ्गहव्यत्ययः प्राग्वत्, तथा ज्ञान-वस्तुतत्त्वावगमस्तदभावोऽज्ञानं, 'चा' समुच्चये, 'महामुने!' सम्यकप्रत्रज्याप्रतिपत्तिगुरु- | परिचर्यादिकरणतः प्रशस्ययते ! 'एतैः' क्रियादिभिश्चतुर्भिः तिष्ठन्त्येषु कर्मवशमा जन्तव इति स्थानानि-मिथ्याऽ|ध्यवसायाधारभूतानि तैः, 'मेयण्णेत्ति, मीयत इति मेयं-ज्ञेयं जीपादिवस्तु तज्जानन्तीति मेयज्ञाः क्रियादिभिश्च|तुर्भिः स्थानैः स्वखाभिप्रायकल्पितर्वस्तुतत्त्वपरिच्छेदिन इतियावत्, 'किम्' इति कुत्सितं 'पभासईत्ति प्रकर्पण |भाषन्ते प्रभाषन्ते, विचाराक्षमत्वात् , तथाहि-ये तावक्रियावादिनस्तेऽस्तिक्रियाविशिष्टमात्मानं मन्यमाना अपि | तस्य सदा विभुत्वाविभुत्वकर्तृत्वाकर्तृत्वादिभिर्विप्रतिपद्यन्ते, उक्तं हि वाचकः-क्रियावादिनो नाम येषामात्मनोऽ|स्तित्वं प्रत्यविप्रतिपत्तिः, किन्तु स विभुरविभुः कर्ताऽकर्ता क्रियावानितरो मूर्तिमानमूर्तिरित्येवमाद्याग्रहोपहृतप्रीतयस्तेऽस्ति माता पिताऽस्ति न कुशलाकुशलकर्मवैफल्यं न न सन्ति गतय इत्येवंप्रतिज्ञाश्च, इह च विभुत्वं व्यापित्वं, तच्चा|त्मनो न घटते, शरीर एष तल्लिङ्गभूतचैतन्योपलब्धेः, न च वक्तव्यमात्मनोऽव्यापित्ये 'सुखदुःखबुद्धीच्छाद्वेषप्रयत्नधर्मा दीप अनुक्रम [५८१] For PAHATEEPIVanupontv मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~884~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy