________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१७],
मूलं [-]/गाथा ||६-१४|| नियुक्ति: [३९१...]
(४३)
2-%
%*-
*-
प्रत सूत्रांक ||६-१४||
बुचई ॥ १२॥ अधिरासणे कुकुईए, जत्थ तत्थ निसीअई। आसणंमि अणाउत्ते, पावसमणित्ति बुचई॥१३॥ ससरक्खपाओ सुअई, सिज्जं न पडिलेहई । संथारए अणाउत्तो, पावसमणित्ति बुचई ॥ १४ ॥ | 'समर्दन्' हिंसन् 'प्राणानिति प्राणयोगात् प्राणिनः-द्वीन्द्रियादीन् 'बीजानि' शाल्यादीनि 'हरितानि च दूर्वाAऽङ्करादीनि, सकलैकेन्द्रियोपलक्षणमेतत् , स्पष्टतरचैतन्यलिङ्गत्वाचैतदुपादानम् , अत एवासंयतस्तथाऽपि 'संजय
मन्नमाणे त्ति सोपस्कारत्वात्संयतोऽहमिति मन्यमानः, अनेन च संविग्नपाक्षिकत्वमप्यस्य नास्तीत्युक्तं, पापश्रमण इत्युच्यते ॥ तथा 'संस्तारै' कम्बल्यादि 'फलकं' चम्पकपट्टादि 'पीठम्' आसनं 'निपद्यां' खाध्यायभूम्यादिकां यत्र निषद्यते 'पादकम्बलं' पादपुन्छनम् 'अप्रमृज्य' रजोहरणादिनाऽसंशोध्य उपलक्षणत्वादप्रत्युपेक्ष्य च 'आरोहति' समाक्रामति यः स पापश्रमण इत्युच्यते ॥ तथा 'दवदयस्स'त्ति द्रुतं द्रुतं तथाविधालम्बनं विनाऽपि त्वरित २ 'चरति' गोचरचर्यादिषु परिभ्राम्यति, 'प्रमत्तश्च' प्रमादवशगश्च भवतीति शेषः 'अभीक्ष्णं' वारं वारम् 'उलङ्घनश्च' वालादीनामुचितप्रतिपत्त्यकरणतोऽधःकर्ता 'चण्डश्च' क्रोधनः, यद्वा 'प्रमत्तः' अनुपयुक्त ईर्यासमिती उलङ्घनश्च वत्सडिम्भादीनां चण्डश्चारभटवृत्त्याश्रयणतः, शेपं तथैव ॥ तथा 'प्रतिलेखयति' अनेकार्थत्वात्प्रत्युपेक्षते प्रमत्तः सम् 'अवउझइत्ति 'अपोज्झति' यत्र तत्र निक्षिपति, प्रत्युपेक्षमाणो वा अपोज्झति, न प्रत्युपेक्षत इत्यर्थः, किं तत् ?-पाद
*-
*
दीप अनुक्रम [५४४-५५२]]
-
*
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~866~