SearchBrowseAboutContactDonate
Page Preview
Page 827
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१५], मूलं [-1 / गाथा ||१|| नियुक्ति: [३७९] (४३) मोणं चरिस्सामि समिञ्च धम्म, सहिए उज्जुकडे नियाणछिन्ने। संथवं जहिज अकामकामे, अन्नायएसी परिव्वए स भिक्खू ॥१॥ प्रत सुत्राक ॥१॥ मुनेः कर्म मौनं तच सम्यक्चारित्रं 'चरिस्सामोत्ति सूत्रत्वात् चरिष्यामि-आसेविष्ये इत्यभिप्रायेणेत्युपस्कारः, 'समेत्य' प्राप्य 'धर्म' श्रुतचारित्रभेदं दीक्षामित्युक्तं भवति, 'सहितः सम्यग्दर्शनादिभिरन्यसाधुभिर्वेति गम्यते, स्वस्मै हितः स्वहितो वा सदनुष्ठानकरणतः, कश्चैवम् ?-ऋजुः-संयमस्तत्प्रधानं ऋजु वा-मायात्यागतः कृतम्-अनुष्ठानं यस्येति ऋजुकृतः, ईदृक्क इत्याह-निदानं-विषयाभिष्वङ्गात्मकं, यदिवा' 'निदान बन्धने' ततश्च करणे ल्युट्, नि-18 दादान-प्राणातिपातादिकर्मबन्धकारणं छिन्नम्-अपनीतं येन स तथा, क्तान्तस्य परनिपातः प्राग्वत्प्राकृतत्वात् , छिन्न-13 निदानो वा अप्रमत्तसंयत इत्यर्थः, 'संस्तवं' पूर्वसंस्तुतैर्मात्रादिभिः पश्चात्संस्तुतैश्च श्वश्वादिभिः परिचयं 'जयात् दा त्यजेत् , 'शकि च लिङ' (शकि लिङ् च पा-३-३-१७३) इत्यनेन शक्याथै लिङ्, ततः संस्तवं हातुं शक्तो य इति, एवं लिङर्थभावना सर्वत्र कार्या,तथा कामान्-इच्छाकाममदनकामभेदान् कामयते-प्रार्थयते यः स कामकामो न तथा अकामकामः, यद्वाऽकामो-मोक्षस्तत्र सकलाभिलापनिवृत्तेस्तं कामयते यः स तथा. अत एव अज्ञातः-तपखिता-IN दिभिर्गुणैरनवगतः एषयते-प्रासादिकं गवेषयतीत्येवंशीलोऽज्ञातैपी 'परिव्रजेद्' अनियतविहारितया विहरेत् 'स भि दीप अनुक्रम [४९५] For मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~826~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy