________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१३],
मूलं [-]/गाथा ||१|| नियुक्ति: [३३३-३३५]
(४३)
प्रत
सुत्राक
बकक
॥१॥
चतुभिरपि देवायुः, जग्मुश्च देवलोकं, ततथ्युतौ चाकृतजुगुप्सौ तु कतिचिद्भवान्तरिती द्वाविपुकारपुरे द्विजकुले जातो, तद्वक्तव्यता च इषुकारीयनाम्यनन्तराध्ययनेऽभिधास्यते, यौ च द्वौ जुगुप्सको तौ दशार्णजनपदे ब्राह्मणकुले दासतयोत्पन्नौ, तयोश्च य इह ब्रह्मदत्तो भविष्यति तेनात्राधिकारी, निदानस्यैवात्र वक्तुमुपक्रान्तत्वात्तेनैव च तद्विधानाद, द्वितीयस्य तु प्रसङ्गत एवाभिधीयमानत्वात् , इह च नामनिष्पन्ननिक्षेपे प्रस्तुते प्रसङ्गतोऽर्थाधिकारोऽप्युक्त इति | गाथात्रयभावार्थः । उक्तो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिष्पन्नस्यावसर इति सूत्रमुच्चारणीयं, तवेदम्
जाईपराजिओ खलु कासि नियाणं तु हस्थिणपुरंमि।
चुलणीइ भदत्तो उववन्नो नलिण (पउम) गुम्माओ ॥१॥ 'जातिपराजितः' इति जाया-प्रस्तावाचाण्डालाख्यया पराजितः-अभिभूतः, स हि वाराणस्यां हस्तिनागपुरे च वक्ष्यमाणन्यायतो नृपेण नमुचिनामा च द्विजेन चाण्डाल इति नगरनिष्कासनन्यकारादिना पुरा जन्मन्यपमानित | इत्येवमुक्तः, यद्वा जातिभिः-दासादिनीचस्थानोत्पत्तिभिरुपर्युपरिजाताभिः पराजित इति-पराभवं मन्यमानोऽहो! अहमधन्यो यदित्थं नीचाखेव जातिषु पुनः पुनरुत्पन्न इति, 'खलु' वाक्यालङ्कारे, स चैवंविधः किमित्याह'कासि'त्ति अकार्षीत् , किमित्याह-'निदान' चक्रवर्तिपदावाप्तिर्मम भवेदित्येवमात्मक 'तुः' पूरणे, केदं कृतवान् ? दाइत्याह-'हत्थिणपुरंमि'त्ति हस्तिनागपुरे, चुलन्यां ब्रह्मदत्तः 'उबवण्णो'त्ति उत्पन्नः 'पद्मगुल्मात्' इति नलिनगुल्मवि
दीप अनुक्रम [४०७]
-
-
*KE
JAINEducatan intarnational
For Pro
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~750~