SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-] / गाथा ||१|| नियुक्ति: [१४] (४३) प्रत सूत्रांक ||१|| मानसामीप्ये वर्तमानव वे' (पा०३-३-१३१) ति भविष्यत्सामीप्ये लट्, 'अहम्' इत्यात्मनिर्देशः, 'समासेन' संक्षेपेणेति गाथार्थः ॥ ५४॥ तत्र तावदात्मसंयोगमाह ओदइय ओवसमिए खइए य तहा खओवसमिए या परिणामसन्निवाए अछविहो अत्तसंजोगो॥५५॥1 8| व्याख्या-'औदयिके' औदयिकविषये, एवम् औपशमिके च क्षायिक तथा क्षायोपशमिके च परिणामसन्निपाते च, सर्वत्र संयोग इति प्रक्रमः, तत एष पड्विधः' पडेदः, आत्मभिः-आत्मरूपैः संयोग इति सम्बन्धनसंयोगः आत्म- संयोगः, न चैषामेकैकेनात्मनः संयोगः सम्भवति, अपि तु द्वाभ्यां त्रिभिश्चतुर्भिः पञ्चभिर्वा, तत्र द्वाभ्यां क्षायिकेण सम्यक्त्वेन ज्ञानेन वा पारिणामिकेन च जीवत्वेन,त्रिभिरौदयिकेन देवगत्यादिना क्षायोपशमिकेन मत्यादिना पारिणामिKA केन च जीवत्वेन, चतुर्भिस्त्रिभिरे(वमेव चतुर्थेनीपशमिकेन क्षायिकेण या सम्यक्त्वेन, पञ्चभिर्यदा क्षायिकसम्यग्दृष्टिरे वोपशमश्रेणिमारोहति तदौदयिकेन मनुष्यत्वेन क्षायिकेण सम्यक्त्वेन क्षायोपशमिकेन मत्यादिना औपशमिकेन चारित्रेण पारिणामिकेन जीवत्वेनेति, अत्रच त्रिकमक एकः चतुष्कभकी च द्वावेते त्रयोऽपि गतिचतुष्टयभाविन इति नतिचतुष्टयेन भिद्यमाना द्वादश भवन्ति, उक्तं च-"ओदइय खओवसमो तइओ पुण पारिणामिओ भावो। एसोपढमरियप्पो १ औदयिका बायोपशमिकः तृतीयः पुनः पारिणामिको भावः । एष प्रथमविकल्पो देवानां भवति ज्ञातव्यः ॥१॥ दीप अनुक्रम मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 74~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy